________________
८६]
वादन्यायः पादितविप्रतिपत्तिस्थानः सामान्येनोपसंहरति । सर्व पृथगिति । यदि दृष्टान्तप्रयोगः किमृजुनैव तत्प्रयोगक्रमेण न प्रयुक्तो विप्रतिपत्तिविषयश्च किन्न दर्शित इति चेत् । न (1) समासनिर्देशात् । एवमपि प्रयो(ग)दर्शनादसाधनवाक्यत्वाञ्च । अत एव न प्रतिज्ञया हतोर्बाधनं । न चैकIIa मेव किञ्चिन्नास्तीति ब्रुवाणः कश्चित्तत्समुच्चयरूपमेकञ्च समूहमिच्छति येन विरोधः स्यात् ।
तत्र प्रसिद्ध शब्दप्रयोगमादर्य परस्परव्यावृत्तानामेकार्थाननुगतानां बुद्धिसमाकृते समूहे भावशब्दप्रयोगादित्यनेन पश्चा'दुपनयेन पक्षधर्मोपसंहारमागूर्य प्रतिपादितविप्रतिपत्तिस्थानः सन्सामान्येनोपसंहरति । सर्वं पृथगि (1ob8)ति । प्रतिपादितं प्रतिपत्तिस्थानम नेनेति विग्रहः। एतदुक्तम्भवति। कपालादिव्यतिरेकेना [? णा]वयव्यस्ति नास्तीति विवादे सत्ययं त्रिलक्षणहेतुसूचनपरो दृष्टान्त उपन्यस्तो न हेतुः । प्रयोगस्त्वत्रैवं क्रियते । ये परस्परव्यावृत्ता न ते व्यतिरिक्तैकावयविद्रव्यानुगतमूर्तयः। तद्यथा षण्णगर्यादयः। तथा च परस्परव्यावृत्ताः कपालादय इति ॥
ननु च यद्ययं दृष्टान्तप्रयोगस्तत्किमृजुनैव तत्प्रयोगक्रमेण न प्रयुक्तो यथा यत्सत् तत्क्षणिकं यथा घट इत्यादौ। किम्पञ्चम्यन्तनिर्देशेन । विप्रतिपत्तिविषयश्च किन्न दर्शितः कपालादेरवयविप्रतिषेधविशिष्टः। यथान्यत्रानित्यः शब्दः कृतकानित्यत्वादिति । चकारात् स्पष्टश्च कस्मात् हेतुः साध्यानुगतो न प्रदर्शितः । तथाह्यत्र परस्परव्यावृत्तानामेकार्थाननुगतानां बुद्धया समाहिते समूहभावशब्दप्रयोगादित्यभ्यूह्य वाक्यपरिसमाप्तिः क्रियते। अत्रोत्तरं न समासनिर्देशात् संक्षेपाभिधानादित्यर्थः। एवमपि प्रयोगदर्शनात् कृतकानित्यत्वादित्यादौ। असाधनं वाक्यत्वाच्च साधनप्रयोगोत्प्रेक्षासूचकं वाक्यमेतत्। नत्विदं साधनवाक्यमित्यर्थः। अत एवेति दृष्टान्तवाक्यत्वादेवेति । यश्चार्य हेतुस्तन्तुपटरूपे भिन्नकारणे विशेषवत्वाद्रूपस्पर्शवदिति ॥ अयमपि तन्तुपटयोर्भेदासिद्धौ तदा'श्रितस्यापि गुणस्य विभागासिद्धरसिद्धाश्रय इति नालमिष्टसिद्धये। तथा हि सूक्ष्मस्थूलद्रव्यसमवायो विशेषवत्वं भिन्नकालोत्पन्नद्रव्यसंवाया 'वेति व्याचक्षते।
परे । ननु विचित्राभिसन्धयः योक्तारः। तत्र ये केचिद्धत्वभिप्रायेनैव [? णैव वाचः प्रयुञ्जते तान्प्रत्यस्माभिः प्रतिज्ञया हेतोधिनमुच्यते न तु ये दृष्टान्ताभिमानिन इत्यत्राह (1) नचे (Tob9)त्यादि। भगवत्तथागतमतावलम्बिनामुपर्ययमपक्षिप्तो विरोधो भवद्भिराक्षपादैनं च नः स्वप्न व्ये तादृशोस्तीति पिण्डार्थः । स्यात् मतमस्त्येव योगाचारो यः (-)