________________
२-न्यायमतखंडनम्
[८५ अन्यैरेव हेतुभिः शब्दस्यैकविशेषानभिधानमनेकार्थसामान्याभिधानश्च । प्रतिपाद्य सर्वस्य शब्दार्थस्य नानार्थरूपतयैकवस्तुविशेषस्व भावताऽभावमुपदर्शयन् शब्दार्थमधिकृत्य सर्व पृथगिति ब्रूयात् । एतेन तद्विरोधःप्रत्युक्तः दृष्टान्तोपदूषणं चैतदनित्यः शब्दः कृतकानित्यत्वादिति । यथा कश्चिदर्थे विप्र'तिपत्तौ प्रसिद्धमनेकार्थसामान्ये शब्दप्रयोगमुपदर्य प्रति
योषिति जले सिकताद्रव्ये वा दारा आपः सिकता इति व्यवहारः। तदा किन्तत्र बाहुल्यं येनैवं भवति शक्तिभेद इति चेत् । सर्वत्रोच्छिन्नमिदानीमेकवचनमेकशक्तेरभावात् । वस्त्व दादन्यत्रैकवचनमिति चेत् । इहाप्यस्तु। तदयनिर्वस्तुको नियमः क्रियमाणः स्वातन्त्र्यमिच्छायाः शब्दप्रयोगे ख्यापयति। एतेन तदपि प्रत्युक्तं यदाह कुमारिल: (1)
तत्र व्यक्तौ च जातौ च दारादिश्चेत्प्रयुज्यते ।
व्यक्तेरवयवानाम्वा संख्यामादाय वर्तत इति ॥ (२८) षण्णगरीति च कथम्वहुष्वेकवचनं । नहि नगराण्येव किञ्चित् कुतस्तेषां समाहारः। प्रासादपुरुषादीनां विजातीयानामनारम्भात् कुतस्तत्समुदायो द्रव्यं असंयोगाच्च नापि संयोगः। प्रासादादीनां परस्परसंयोगात्। प्रासादस्य स्वयं संयोगात्मकस्य निर्गुणतयापरेणासंयोगाच्च। तत एव च संख्याभावः। तत्संयोगपुरुषविशिष्टा सत्ता नगरमिति चेत् । किमस्यानिरतिस[? श]याया विशेषणं सत्तायाश्चैकत्वात् नगरबहुत्वेपि नगराणीति बहुवचनं स्यात् (1) द्वयस्य परस्परसहिततेति चेत् । अनुपकारकयोः कः सहायीभावः। पुरुषसंयोगसत्तानां च वहुत्वान्नगरमिति कथमेकवचनं। तथा भूतानां क्वचिदभिन्ना शक्तिः सा निमित्तमिति चेन्न। शक्तेर्वस्तुरूपाव्यतिरेकात्। व्यतिरेके चानुपकार्यस्य पारतन्त्र्यायोगात्। उपकारे वा शक्युपकारिण्या अपि शक्तेर्व्यतिरेक इत्यवस्थितेरप्रतिपत्तिः। तदव्यतिरेके अन्यासा- 55a मपि प्रसंग इति यत्किञ्चिदेतत् । प्रकारान्तरमप्याह। दृष्टोपदर्शनश्चतदिति । किं पुनः पञ्चम्यन्त निर्देशेपि दृष्टान्तो भवतीत्याह। कृतकानित्यत्वादि(rob7) ति यथा येनोक्तं।
हेतोः साध्यान्वयो यत्राभावभावश्चकथ्यते । • पञ्चम्या तत्र दृष्टान्तो हेतुस्तूपनयाऽत्मक (२९) इति ॥ क्वचिदर्थे घटादिद्रव्ये विप्रतिपत्तौ सत्यां रूपादिव्यतिरिक्तमस्ति नास्तीत्यनेकस्यार्थस्य परस्परव्यावृत्तस्य नगरादेः सामान्यं षण्णगरीत्यादि यद बुध्यारोपितं