________________
८४]
वादन्यायः
भावोपादानत्वनिषेधात् । शब्दार्थनिषेधे हि विरोधः स्यात् । न च स्वलक्षणं शब्दार्थ इति । यः पुनः प्रतिज्ञा या बाधनाद्धेतुविरोध उक्तः । यथा सर्व पृथक्समूहे भावशब्दप्रयोगादिति । नात्र प्रतिज्ञायाः प्रयोगोनापि हेतोयेन विरोधःस्यात् । किन्तर्हि प्रतिपादितार्थोपदर्शनेनोपसंहारवचनमेतस्मात् ।
क्रियासामर्थ्यात्मकन्तदभिधानञ्च प्रतिपाद्य सर्वस्य शब्दार्थस्य रूपादेरेकार्थ
क्रियासमर्थस्य नानार्थरूपतया करणभूतया। एकश्चासौ वस्तुविशेषस्वभावश्चा54a वयविद्रव्यरूपस्तस्य भाव एकवस्तुविशेषस्वभावता तस्या अभावमुपदर्शयन्नास्त्येको
भाव इत्यभिदध्याद् बौद्धो न तु रूपाणीन्द्रियार्थान् प्रतिक्षिपन् । स्यात् मती रूपाद्यव्यतिरेकात् सामर्थ्यमप्यनेकं तत्कथन्तदेकमित्युच्यते कथं वा तस्य शब्दार्थत्वं । नहि स्वलक्षणं शब्दार्थ इत्युच्यते। नानाभूतमपि सामर्थ्य भिन्नवत्स्वव्यतिरेकादेकार्थक्रियाकारितयेकप्रत्यवमर्षहेतुत्वात् परम्परयकमित्याख्यायते। यथोक्तम्।
एकप्रत्यवमर्षस्य हेतुत्वाद्धीरभेदिनी (1) एकधा हेतुभावेन व्यक्तीनामप्यभिन्नतेति ॥(२५)
पुरुषाध्यवसायानिरोधेन शब्दार्थत्वं तस्य व्यवस्थाप्यते । पुरुषोह्यनादिमिथ्याभ्यासवासनापरिपाकप्रभावादन्तर्मात्राविपरिवर्तिनमाकारं बाह्येष्वेवारोप्य दृश्यविकल्पयो रेकत्वम्प्रतिपन्नः परमार्थतस्तु निविषया एव ध्वनयः । व्यक्तीनाम्विज्ञानाकारस्य चार्थान्तरानुगमाभावेनाभिलापागोचरत्वात् । यथाध्यवसायञ्चाका रस्य सत्वात् । यथोक्तं सूत्रे॥
येन येन हि नाम्ना वै यो यो धर्मोभिलप्यते ।
न स सम्विद्यते तत्र धर्माणां सा हि धर्मतेति ॥(२६ तदयमत्र समदायार्थो रूपादी नाङघटस्य च यथा क्रममनेकत्वमेकत्वञ्च वहुवचनकवचनाभिधयत्वात् (1) तद्यथा नक्षत्राणि शशीत्येवमादिभिरनुमानाभासः परेण घटादिशब्दस्य विषयो योयमेकार्थोऽवयव्यभिधानोभ्युपगतः स एव प्रतिक्षिप्यते। नतु रूपरसादयः परमाणुस्वभावास्तथा हि तेषाम्प्रत्येकमेककात्मकत्वमिष्टमेव । केवलास्तदातिसफलबीजवन्न समुदायमासादयन्तीति नियतसहोत्पादत्वपरिदीपनायोक्तं ॥
कामेष्टद्रव्यकोऽशब्दः परमाणुगतीन्द्रियः (1) कायेन्द्रियो नवद्रव्यो' दशद्रव्योऽपरेन्द्रिय इति । (२७,अभिधर्मकोशे २।२२) यथा तु परमाणूनामैन्द्रियकत्वमनित्यत्वञ्च तद्विस्तरेणोक्तमन्यत्रास्माभिः। यत्पुनरेतद्वहुवचनैकवचनाभिधेयत्वादिति तद्वयभिचारि। तथाहि यदैकस्यामपि
54b