________________
२ -न्यायमतखंडनम्
[ ८३
1
वाक्ये ं प्रयोगो न विरोधस्तदधिकरणत्वात् । यदि प्रतिज्ञानपेक्षो 1ob विरोधः स्यात् स्यात्पराजयाश्रयः । प्रतिज्ञाधिकरणच्चे पुनस्तत्प्रयोगकृत एव पराजयोऽस्य प्रस्तावोपसंहारावज्ञानत्वात् । व्यर्थ विरोधो 'द्भावनं पराजितपराजयाभावाद्भम्मोकृतनालवत् । ये तु केचिद्विचारप्रसङ्गेष्वेकत्र साध्ये बहवो हेतव उच्यन्ते तेषां विकल्पेन तत्साध्यसाधनाय वृत्तेः सामर्थ्यमन्यथा द्वितीयस्य वैयर्थ्यात् । यदि हि तत्राप्येक प्रयोगमन्तरेणापरस्य प्रयोगो न सम्भवेत् न तदा द्वितीयस्य कश्चित्साधनार्थः, प्रतीतप्रतिपादनाभावात् । तस्मान्न प्रतिज्ञायाः स्ववचनविरोधो नाम किञ्चिन्निग्रहस्थानं ।
न च नास्त्यात्मेत्यत्र कश्चित्प्रतिज्ञाविरोधः । नास्त्यात्मशब्दार्थस्य
भवेन्निग्रहाधिकरणमित्याह । यदी ( 10b1 ) त्यादि । प्रस्तावस्य वादस्योपसंहारः परिसमाप्तिस्तस्यावसानन्निमितं प्रतिज्ञाप्रयोगः । तन्मात्रेणै ' वासाधनाङगाभिधानात् वादिनोभङगात् । क्वचित्प्रस्तावोपसंहारावसरत्वादिति पठ्यते । तत्रापि वादपरिसमाप्तेः प्रतिज्ञापदप्रयोगे सत्यवसरोऽधिकार इत्यर्थः । अथ बुद्धिर्यथाः भवद्भिः कस्यचिदर्थस्य क्षणिकत्वादिकमेकमेव साध्यं बहुभिः सत्वोत्पत्तिमत्वप्रत्यय भेदभेदित्वादिभिर्हेतुभिः प्रतिपाद्यते तथैकमपि दृष्यम्परोपन्यस्तं साधनवाक्यं प्रतिज्ञोपादानद्वारेण तद्विरोधद्वारेणान्यथा वा दृष्यते । तथा च नायन्दोषः पराजितपराजयाभावादिति । तदत्राह । ये तु हेतवः उच्यन्ते ( 10b2 ) तेषाम्विकल्पेन पूर्व्वहेत्वनपेक्षया । एवं वैतत् । अथवान्यथा साधयामीत्येतत् साध्यसाधनाय वृत्तेः कारणात्सामर्थ्यमस्ति (।) किं पुनः कारणं न समुच्चये नैव प्रयोग इत्याह । अन्यथा यदि (10b3) समुच्चयेनैवापरहेत्वन्तरप्रयोगोभीष्टस्तदा द्वितीयस्य वैयर्थ्यात् विकल्पेन सामान्यमिति वर्तते । वैयर्थ्यमेव प्रतिपादयति । यदि हि तत्राप्येकप्रयोगमन्तरेणापरस्य प्रयोगो न सम्भवेत् । उभयप्रतिषेधेन विध्यवसायात् । यद्येकस्य प्रयोगे - ऽपरस्य समुच्चयेन प्रयोगः सम्भवेदित्यर्थः । तदा न द्वितीयस्य कश्चित् साधानार्थो प्रतीतप्रतिपादनाभावात् । प्रथमहेतुप्रतिपादित एवार्थे व्यापृतत्वान्निष्पादितक्रिये दारुणि प्रवृत्तस्यैव दात्रादेर्न कश्चित्साधकतमत्वार्थ इति यावत् । ननु च साधनवद्विकल्पेनैव दूषणमपि भविष्यति । एवं मन्यते । नैवं परोभ्युपगन्तुर्महति । एवं हि तेन स्वयमेव प्रतिज्ञाया असाधनाङ्गत्वम्प्रतिपन्नम्भवेत् । ततश्चैतद् व्याहन्यते । प्रतिज्ञाहेतूदाहरणोपनयनिगमनान्यवयवा ( न्या० सू० १।१।३२ ) इति । अन्यैरेव हेतुभिरित्यव' यविद्रव्यनिषेधकैः पूर्वोक्तप्रकारैः कुम्भादिशब्दस्यैकघटाद्यवयविद्रव्यलक्षणविशेषानभिधानमनेकस्य चार्थस्य रूपादेर्यत्सामान्यमेकार्थ
1
११