Book Title: Vadnyaya
Author(s): Shantrakshit Acharya
Publisher: Mahabodhi Sabha

View full book text
Previous | Next

Page 51
________________ वादन्यायः ३४] नियुञ्जीरन्निति कस्तत्रोपलम्भो निमित्तञ्च निन्दायास्यो(?)क्तमेव। अपि च यदि न रूपादीनामेकेन शब्देन सम्बन्धः (1) कथमेकेनैषामाश्रयाभिमतेन द्रव्येण सम्बन्ध इति केवलमयमसद्भूताभिनिवेश एव । __ न वयमे कसम्बन्धिविरोधादेकं शब्दं नेच्छामोऽपि त्वभिन्नानां रूपादीनां घटकम्बलादिषु नानार्थक्रियाशब्दविरोधात्त एकरूपाः समुदायोत्तरासम्भाविनीमर्थक्रियामेव न कुर्युः। तेन तत्प्रकाशनायैकेनापि शब्देनोच्येरन् । भवतु नाम कस्यचिदियं वाञ्छा (-) भवेयुरेकरूपा रूपादयः सर्वसमुदायेष्विति । किमिदं परस्परविविक्तरूपप्रतिभासाध्यक्षदर्शनमेनामुपेक्षते । अनिष्टश्चेदं रूपादीनां प्रतिसमुदायं स्वभावभेदोपगमात् । रूपादिरेकशब्दोत्थापने समर्थ इत्ययं नैव कश्चित् केवलमतिबहुलव्यामोहविज़म्भितमिति मन्यते । स्यान्मतङकिमित्येकं शब्दमनेकत्र नियुञ्जत इत्याह । निमितञ्च नियोगस्योक्तमेवेति (3a6) तत्सामर्थ्यख्यापनाय तत्रैक शब्दनियोगोऽपि स्यादित्यत्रावसरे। उपचयमाह। अपि चे (3a7)त्यादिना। आश्रयाभिमतेनेत्यवयविद्रव्येण। तेषान्तत्र समवायसम्बन्धेन सम्बन्धात् । कथं सम्बन्धो नैवानेकस्य एकेन सह सम्बन्धो विरोधाभ्युपगमात् । अन्यथैकेन शब्देनापि सह प्राप्नोतीत्यभिसन्धिः। परः प्राह। न चे (3a7) दयमेकेन सह सम्बन्धविरोधात् कारणादेकशब्दं रूपादिषु नेच्छामः । किन्त्वभिन्नानामविशिष्टानां रूपादीनांघटकम्बलपर्यडकादिषु। नानाविधा येयमर्थक्रिया जलधारणप्रावरणादिस्तस्या विरोधः। तथा च तत्सामर्थ्यख्यापनाय शब्दस्य विरोधात् । तेषाञ्चाभेदस्तदाश्रय25a द्रव्यभेदाभावात्। एतदेव स्फुटयति । ते रूपादय एकस्वभावाः सन्तः समुदायान्तरे कम्वलादौ येयमसम्भाविनी उदक धारण विशेषाद्यर्थक्रिया तामेव कुर्युस्तेन कारणेन तस्या अर्थक्रियायाः प्रकाशना येमामेतेऽर्थक्रियां न ते तदसम्भाविनीमर्थक्रियाङकुर्वन्ति (1) यथा त एव कम्बलगता रूपादयः सजातीयेभ्यः। तथा च घटगता अपि रूपादयः कम्बलगतेभ्यो रूपादिभ्योऽविशिष्टस्वभावा इति व्यापकानुपलब्धिः । एवमन्यत्रापि योज्यमितीयं पूर्वपक्षरचना । अत्रोत्तरमाह । भवत नामेत्यादिना (3a)। तदनेन हेतोरसिद्धिमदभावयति। अयमत्रार्थो नहि रूपादीनाङ कम्बला दिष्वभेदोस्ति। परस्पररूपविविक्तानामेव प्रत्यक्षप्रमाणपरिच्छेद्यत्त्वात् । एवञ्च सतीदं प्रत्यक्षं किमेनाम्वाञ्छामुपेक्षते। किम्प्रश्ने क्षेपे वा नैव क्षन्तुमर्हत्यपाकरोतीति । किंञ्चानिष्टञ्चेद (3a10)मस्माभिर्घटकम्बलादिष्वभिन्ना रूपादय इति कुतो

Loading...

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194