________________
वादन्यायः
३४] नियुञ्जीरन्निति कस्तत्रोपलम्भो निमित्तञ्च निन्दायास्यो(?)क्तमेव। अपि च यदि न रूपादीनामेकेन शब्देन सम्बन्धः (1) कथमेकेनैषामाश्रयाभिमतेन द्रव्येण सम्बन्ध इति केवलमयमसद्भूताभिनिवेश एव ।
__ न वयमे कसम्बन्धिविरोधादेकं शब्दं नेच्छामोऽपि त्वभिन्नानां रूपादीनां घटकम्बलादिषु नानार्थक्रियाशब्दविरोधात्त एकरूपाः समुदायोत्तरासम्भाविनीमर्थक्रियामेव न कुर्युः। तेन तत्प्रकाशनायैकेनापि शब्देनोच्येरन् । भवतु नाम कस्यचिदियं वाञ्छा (-) भवेयुरेकरूपा रूपादयः सर्वसमुदायेष्विति । किमिदं परस्परविविक्तरूपप्रतिभासाध्यक्षदर्शनमेनामुपेक्षते । अनिष्टश्चेदं रूपादीनां प्रतिसमुदायं स्वभावभेदोपगमात् ।
रूपादिरेकशब्दोत्थापने समर्थ इत्ययं नैव कश्चित् केवलमतिबहुलव्यामोहविज़म्भितमिति मन्यते । स्यान्मतङकिमित्येकं शब्दमनेकत्र नियुञ्जत इत्याह । निमितञ्च नियोगस्योक्तमेवेति (3a6) तत्सामर्थ्यख्यापनाय तत्रैक शब्दनियोगोऽपि स्यादित्यत्रावसरे। उपचयमाह। अपि चे (3a7)त्यादिना। आश्रयाभिमतेनेत्यवयविद्रव्येण। तेषान्तत्र समवायसम्बन्धेन सम्बन्धात् । कथं सम्बन्धो नैवानेकस्य एकेन सह सम्बन्धो विरोधाभ्युपगमात् । अन्यथैकेन शब्देनापि सह प्राप्नोतीत्यभिसन्धिः। परः प्राह। न चे (3a7) दयमेकेन सह सम्बन्धविरोधात् कारणादेकशब्दं रूपादिषु नेच्छामः । किन्त्वभिन्नानामविशिष्टानां रूपादीनांघटकम्बलपर्यडकादिषु। नानाविधा येयमर्थक्रिया जलधारणप्रावरणादिस्तस्या
विरोधः। तथा च तत्सामर्थ्यख्यापनाय शब्दस्य विरोधात् । तेषाञ्चाभेदस्तदाश्रय25a द्रव्यभेदाभावात्। एतदेव स्फुटयति । ते रूपादय एकस्वभावाः सन्तः
समुदायान्तरे कम्वलादौ येयमसम्भाविनी उदक धारण विशेषाद्यर्थक्रिया तामेव कुर्युस्तेन कारणेन तस्या अर्थक्रियायाः प्रकाशना येमामेतेऽर्थक्रियां न ते तदसम्भाविनीमर्थक्रियाङकुर्वन्ति (1) यथा त एव कम्बलगता रूपादयः सजातीयेभ्यः। तथा च घटगता अपि रूपादयः कम्बलगतेभ्यो रूपादिभ्योऽविशिष्टस्वभावा इति व्यापकानुपलब्धिः । एवमन्यत्रापि योज्यमितीयं पूर्वपक्षरचना । अत्रोत्तरमाह । भवत नामेत्यादिना (3a)। तदनेन हेतोरसिद्धिमदभावयति। अयमत्रार्थो नहि रूपादीनाङ कम्बला दिष्वभेदोस्ति। परस्पररूपविविक्तानामेव प्रत्यक्षप्रमाणपरिच्छेद्यत्त्वात् । एवञ्च सतीदं प्रत्यक्षं किमेनाम्वाञ्छामुपेक्षते। किम्प्रश्ने क्षेपे वा नैव क्षन्तुमर्हत्यपाकरोतीति । किंञ्चानिष्टञ्चेद (3a10)मस्माभिर्घटकम्बलादिष्वभिन्ना रूपादय इति कुतो