________________
१-निग्रहस्थानलक्षणम्
[३५ यद्यन्यत्र च रूपादिभ्यो घटादीनामेकः स्यात् । अस्तु तस्य प्रत्यक्षस्य
रूपादीनाम्प्रतिसमुदायत्त्वे हेतुबलादनपेक्षितद्रव्याणां स्वभेदाभ्युपगमात् । तदनेनाभ्युपगमद्वारेणाप्यसिद्धताञ्चोदयति। पूर्वेण प्रत्यक्षद्वारेणेति विशेषः। पुनरपीालुः परः प्राह। यद्यन्य एव रूपादिभ्यो घटः स्यात् किं स्यादिति (1) न कश्चिद्दोषः स्यादित्याकूतं । न वयं मात्सर्यात्तं नेच्छामः। किन्तु भवत्येतावत्त्वत्र वक्तव्यस्तीत्याह। तस्यावय विनः प्रत्यक्षस्य सतः (3a10) चक्षुः स्पर्शनेन्द्रियग्राह्यतयाभ्युपगतत्त्वात् । अरूपादिरूपस्य (3a10) रूपगन्धादिस्वभावरहितस्येत्यर्थः । गुणद्रव्ययोर्भेदाभ्युपगमात् ॥' 25b तद्विवेकेन रूपादिविवेकेन बुद्धौ चक्षुः स्पर्श) नेन्द्रियजायां प्रतिभासने किमावरणन्न कश्चित्प्रतिबन्ध इत्यर्थः । न च कश्चिदत्यादरेणाप्रतिहतकरणोपि नि'रूपयन्नीलमधुरसुरभिकर्कशादिव्यतिरेकेण तद्रूपम्विविक्तरूपं घटादिद्रव्यमुपलब्धुमीश इति मन्यते । अबिद्धकर्णस्त्वाह (1) रूपाद्यग्रहेपि द्रव्यग्रहणमस्त्येव यतो मन्दमन्दप्रकाशेऽनुपलभ्यमानरूपादिकं द्रव्यमुपलभ्यतेऽनिश्चितरूपं गौरश्वो वेति। ननु च तत्रापि संस्थानमात्रमुपलभ्यते। सत्यमुपलभ्यते न तु तद्रूपाद्यात्मकं। रूपाद्यात्मकत्वे वा नीलपीतादिविशेषग्रहणप्रसङगः। तथायस्कञ्चुकान्तर्गते पुरुषे पुरुषरूपाद्यग्रहे पि पुरुषप्रत्ययो दृष्टः । रात्रौ च वलाकाव्यामुक्त रूपाद्यग्रहेपि पक्षिप्रत्ययो दृष्टः। तथानीलाद्युपधानभेदानुविधायिनः स्फटिकमणेः स्फटिकरूपाद्यग्रहेपि स्फटिकप्रत्ययः। तथा कषायरूपेण पटरूपाभिभवे पटरूपाद्यग्रहेऽपि पटप्रत्ययो दृष्ट इति। तदेतत्सर्वमस्यानल्पकालोपचितकुदर्शनाभ्यासोपजातबुद्धिमान्द्यविजृम्भितमेव प्रकटयति वचः। तथाहि यत्तावदिदमुक्तं मन्दमन्दालोके रात्रौ च नीलाद्युपधान सद्भावे च तद्रूपाद्यग्रहेपि द्रव्यमुपलभ्यत इति 'तत्र वक्तव्यं कीदृशं तत्र द्रव्यमुपलभ्यत इति । दृश्यत एव तद्यादृशमुपलभ्यत इति चेत्। ननु श्यामरूपं मन्दमन्दालोके रात्रौ च तत्र तदपुलभ्यते उपधानं रूपञ्च । न च तद्रूपन्तत् । ताद्रूप्येऽनन्तरोदितपक्षक्षयप्रसङगात्। तत्समीपपार्वत्तिभिश्च तथानुप'लम्भात् । न चाप्यण्या [? न्या]कारेण बोधेन वस्तुनोऽवगतिः यस्य कस्य- 26a चिज्ज्ञानस्य सर्ववस्तुपरिच्छेदकत्त्वप्रसङगात्। तस्माद् भ्रान्तमेतत् ज्ञानम्भ्रान्तिबीजात्स्वोपादानादनादि कालीनानिविषयमेव तथा प्रतिभासि द्विचन्द्रादिप्रत्ययवदपजायते (1) निविषयत्त्वेपि प्रतिनियतदेशकालभावि भवति । स्वोपादानवासनाप्रबोधकबाह्या धिपतिप्रत्ययापेक्षना[ ? णात् । द्विचन्द्राविज्ञानवदेव । भ्रान्तत्त्वेप्याविष[ ? स]म्बादो विशिष्टाधिपतिप्रत्ययसद्भावात् । मणि