________________
१-निग्रहस्थानलक्षणम्
[३३ च शक्तिरिति । नानै कशक्तिविवक्षायां बहुवचनमेकवचनञ्चेच्छातो(-) वृक्षा वृक्षं इति स्यात् । यद्येष नियमो (-) बहुष्वेवबहुवचनमेकस्मिन्नेकवचनमिति (पाणिनिः १।८।२१)। अस्माकन्तु सांकेतिकेष्वर्थेषु संकेतवशाद[? शा]त्तैरि[?तावि]त्यभिनिवेश एव (1) नानेको रूपादिरेकशब्दोत्थापने शक्त इति चेत् । किम्वै पुरुषवृत्तेरनपेक्षाः शब्दानः स्वयमुत्थापयन्ति, आहोस्वित्पुरुषैः शब्दा व्यवहारार्थमर्थेष नियज्यन्ते । स्वयमत्थापने हि भावशक्तिरशक्तिर्वा चिन्त्येत (1) न च तद्युक्तं । पुरुषैस्तेषां नियोगे यथेष्टं
वोपि वृक्षाः । ततश्च तेषाङकेवलानामपि योग्यत्वादनेका शक्तिः समवहितानामपि योग्यत्वादेका शक्तिरेकप्रत्यवमर्शप्रत्ययनिबन्धनत्वेनैकत्वोपचारात्। यतश्चैव मिति तस्माद्यथाक्रमं नानाशक्तिविवक्षायां सत्यां बहुवचनमनेकत्वाच्छक्तेर्वृक्षा इति भवति। एकशक्तिविवक्षायान्तु एकत्वाच्छब्द एकवचनमुक्त इति स्यात् । तदा योष नियमो भवद्भिरसद्ग्रहग्रहावेशव्याकुलितचेतोभिरिष्यते। बहुष्वेव वाच्येषु बहुवचनं भवति। एकस्मिन्नेव चैकवचनमिति । तदनेन यदाप्येतद्दर्शनमाश्रीयते बहुषु (वहु)वचनम्भवति। द्वयेकयोस्विचनैकवचने (पाणिनिः १।४।२२) इति तदापि न कश्चिद्दोष इति दर्शयति । भवतान्तु कथमित्याह। अस्माकमि (3a4)त्यादि।' संकेतबसा[? बशाच्छब्दानाम्बहुवचनान्तानान्दाराः सिकताः पादाः । गुरव इत्यादिनासत्यपि बहुत्वेऽभिधेयस्य वृत्तिः॥ ____ तथासत्यप्यनेकत्वेषण्णगरी षट्पू (?) लीवनमित्यादिनैकवचनान्तानाम्वृत्तिरित्यनभिनिवेश एव । को हि नाम सचेतनः पुरुषाभिप्रायमात्राधीनवृत्तिषु शब्देष्वभिनिवेशं कर्तुमुत्सहत इति भावः। परपक्षं पूर्वपक्षयति। नानेको रूपादिरेकशब्दो. त्थापने समर्थ इति चे (3a5)दिति। नहि अनेकस्यैकेन सम्बन्धो युज्यत इति। किमि (3as)त्यादिना परिहारः। पुरुषाणाम्वृत्तिरिच्छा तत्रानपेक्षाः सन्तोऽर्थाः किं स्वयं शब्दानुत्थापयन्ति। आहोस्वित्पुरुषस्ते व्यवहारार्थमर्थेषु यथा कथञ्चिनियुज्यन्त इति विकल्पद्व यं। तत्र पुरुषैरेव ते यथेष्टं नियुज्यन्तेऽन्यथाऽतीता जातयोर्दर्शनान्तरभेदिष्वन्यत्र वा नियोजनन्न भवेदिति भावः। ततश्च स्वयं 24b (3a6)पुरुषेच्छाऽनपेक्षाणामर्थानां शब्दोत्थापने सति भावस्य शक्तिरसक्ति[? शक्ति] र्वा चिन्त्येत नामक इत्यादिना। अस्त्येव तर्हि स्वयमुत्त्थापनमिति चेदा'ह। न च तद्युक्तं (3a6)। अनन्तरोक्तात् कारणत्रयादित्यभिप्रायः। तस्मात्पुरुषस्तेषां शब्दानां नियोगोर्थेषु विनाप्येकत्वादिना ते पुरुषाः यथेष्टमेकत्रापि बहुवचनान्तम नेकत्राप्येकवचनान्तं शब्दं नियुञ्जीरन्निति कस्तत्र तेषु शब्देषूपालम्भो नानेको