________________
वादन्यायः
३२] स्थापनाय ह्यकशब्दो नियुज्यते यदि किं स्यात् । तदर्थक्रियाशक्तिस्थापनाय नियुक्तस्य समुदायशब्दस्यैकवचनविरोधोपि नाऽस्त्येव (1) सहितानां सा शक्तिरेका न प्रत्येकमिति । समुदायशब्द एकस्मिन् समुदाये वाच्ये एकवचनं घट इति । जातिशब्देष्वर्थानां प्रत्येकं सहितानाञ्च शक्ति नैका
त्सर्वेषान्तथाभावप्रतीतिरस्त्येवेति व्यर्थम्पृथग्वेति स्यात् न चायं शब्दार्थ इति यत्किञ्चिदेतत् । तैः प्रकरणं न लक्षितं तथा हयत्र समुदायशब्दस्यकवचनप्रवृत्यविरोधः कथयितुमारब्धः। तत्र कः प्रस्तावः पृथग्वेत्यभिधानस्य ॥
केवलं रूपादिशब्दश्चायजातिशब्दः। तत्र चान्यादृश्येव प्रक्रिया भविष्यति। यत्त्विदमुक्तं केवलमत्रैकप्रयोजना इत्यभिधानात्सर्वेषां तथाभावप्रतीतिरस्त्येवेति तदपि न युक्तिसङगतं । तथाहि परबलपराजयोद्यतानामेकप्रयोजनवत्वेपि न तत्र सर्वे व्यापारवन्तो भवन्ति । तद्वदत्रापि भवेत्। अत एव च स्यादाशङकासम्भव इति
व्याख्यातं । यदा तु सर्वेषामेव सव्यापारताख्यापनाय पृथग्वेत्येतदुच्यते तदाऽपलु 23b र(?) तमुत्सार्यते। तदेतेनैवाशब्दार्थ त्वमपि प्रत्युक्तमिति यत्किञ्चिदेतदेव।
अस्तु वैतदपि व्याख्यानं यदि कथञ्चिद्वयवस्थापितुं पार्यते। तेषामेवं विधानामर्थानान्तस्यैकार्थक्रियाकारिणो भावस्य ख्यापना'यैकोघटादिशब्दो यदि नियुज्येत तदा किं स्यान्न कश्चिद्दोषः स्यात् । गुण एव तु केवलो लभ्यत इत्याह (1) तदर्थक्रियास[? शक्तेरभिन्नाया(:) ख्यापनाय नियुक्तस्य समुदायशब्दस्यैकवचनविरोधोपि नास्त्येव (3a2)। कुतः (1) यस्मात्सहितानां सा शक्तिरेका (3a3)ऽभिन्ना न प्रत्येकं न तु पृथग्भूतानामित्यर्थः। इति तस्मात्समुदायशब्दे तस्मिन्नैकस्मिन्घटादौ समुदाये वाच्ये एकवचनं घट इति भवतीति शेषः । स्यादिति वा वक्ष्यमाणं क्रियापदं। नन्वयङघटादिशब्दो गवादिशब्दवज्जातिशब्दस्तत्कथमेतदुक्तमिति चेत्। सत्यं समुदा (या)न्तरवृत्यपेक्षया जातिशब्दोयं रूपादिसमुदाय्यपेक्षया तु समुदायशब्दोपीत्यभिसन्धेरदोषः। तथाहि त्रय्येवगतिः शब्दानाङकेचिज्जातिशब्दा एव। यथा सुखादिशब्दाः सुखादेरनवयवत्वात्। केचित्तु समुदायशब्दा एव यथा विन्ध्यहिमवत्सुमेर्वादिशब्दाः। तज्जातीयस मुदायान्तराभावात् । अपरे पुनर्जातिसमुदायशब्दाः। यथैत एव घटादिशब्दाः समुदायान्तरसमुदाय्यपेक्षयेति। एवन्तावत्समुदायशब्देषु वचनप्रवत्यविरोध उक्तः। अथ कथजातिशब्देष्वित्याह। जातिशब्देष्वित्यादि (323)। अर्थानां घटा
दीनां प्रत्येकं सहितानाञ्च शक्तेः कारणात् नानाशक्तिरेका च। एतदुक्तं भवति 24a यस्मादेको पि वृक्षो गृहकरणाद्यर्थक्रियानिवर्त्तने[? निर्वर्तने]पि योग्यो बह