________________
१ - निग्रहस्थानलक्षणम्
[ ३१
नया (1) बहवोप्येकार्थकारिणो भवेयुश्चक्षुरादिवत् । तत्सामर्थ्यस्थापनाय तत्रैकशब्दनियोगोपि स्यादिति युक्तं पश्यामः । न च निःप्रयोजना लोकस्यार्थेषु शब्दयोजना । तत्र येऽर्थाः सह पृथग्वैकप्रयोजनास्तेषां तद्भाव
1
यश्चक्षुरादिविज्ञानमेकं कुन्ति तथा रूपा (द) योप्युदकधारणविशेषादिकामे- 22b कामर्थक्रियाङकरिष्यन्तीत्यर्थः । यतश्चैतदेवं तस्मात्तस्यैकार्थक्रियासामर्थ्यस्य ख्यापनाय' तत्र रूपादावेकस्य पटादिशब्दस्य नियोगोपि स्यादिति एतद्युक्तं पश्यामः । न केवलमेकार्थक्रियाकारित्वं तेषामित्यपिशब्देनाह । कथं युक्तमिति चेत् । एवं मन्यते" केनचित्प्रयोजनेन केचिच्छब्दाः क्वचिन्निवेश्यन्ते तत्र यदनेकमेकत्रोपयुज्यते तदवश्यन्तत्र चोदनीयं । तस्य च पृथक्कथञ्चोदनेऽतिगौरवं स्यात् । न चास्यानन्यसाधारणं रूपं शक्यं चोदयितुं । नाप्यस्यायासस्य किञ्चित्साफल्यं केवलमनेन योग्यास्तत्र तेर्थाश्चोदनीयास्त एकेन वा शब्देन चोद्येरन् बहुभिर्वेति स्वातन्त्र्यमत्र' वक्तुः । तदियमेका श्रुतिर्बहुषु वक्त्रभिप्रायवसा[ ? वशा]त्प्रवर्त्तमाना नोपालम्भमर्हति । न चेयमशक्यप्रवर्त्तमाना इच्छाधीनत्वात् । यदि हिं न प्रयोक्तुरिच्छा कथमियमेकत्रापि वर्त्तेत । इच्छायाम्वा क एनां बहुष्वपि प्रतिबद्धुं समर्थः । प्रयोजनाभावादप्रवर्त्तनमित्यपि नाशङ्कनीयं । भिन्नेष्वप्येकस्माच्छब्दात्प्रतीतिरतत्प्रयोजनभेदेन यथा स्यादित्युक्तत्वात् प्रयोजनस्य तस्मात्सूक्तमस्माभिर्युक्तं पश्याम इति । यथा कथञ्चिद्विनैव प्रयोजनेन लोकः शब्द' प्रयुक्ते । ततो न युक्तमेतदिति चेदाह । न च निःप्रयोजना लोकस्यार्थेषु शब्दयोजने(3a1 ) ति । न हि व्यसनमेवैतल्लोकस्य यदयमसङ्गतं यन्न प्रयुज्जानो वा शब्दान्तः खल्वा सीत् । किन्तर्हि सर्व्व एवास्यारम्भः प्रयोजनसापेक्षः प्रयोजनञ्चेतदुक्त मिति मन्यते तत्र प्रयोजनवत्वेनेति । यथा रूपगन्धरसादयः सहैकप्रयोजनाः सङकलिता एककार्यकारिण इत्यर्थः । समवहितानामपि कदाचित्कस्यचिदेव 232 कार्ये व्यापारोन्यस्य त्वौदासीन्यमिति' स्यादाशङकासंभवस्तत आह । पृथग्वेति (322 ) ( 1 ) वा शब्दश्चार्थे । सर्व्व एव व्यापारवन्त इत्यर्थः । अन्ये त्वन्यथा व्याख्यानयन्ति । व्याख्यानञ्चादो दूषयन्ति । तत्रैतस्मिन् शब्दैरर्थ प्रत्यायनक्रमे येथे रूपादयः सह पृथग्वैकप्रयोजनास्तेषां रूपादीनां संहितानां पृथुबुध्नोदराकारसंस्थापितानामेकं प्रयोजनं । यदुत मधूदकाद्याहरणं पृथग्वा तेषामेव प्रत्येकं स्वाकारज्ञानजननं ॥ एकञ्च तत्प्रयोजनमेकत्र दृष्टं यत्तदन्यत्र नास्तीति सहभूतानामपि कदाचिदौदासीन्यदर्शनात्सर्वेषां सव्यापा' रतामादर्शयितुं पृथग्वेत्यभिहितं (1) वा शब्दश्च समुच्चय इत्यन्ये । केवलमत्रैकप्रयोजना इत्यभिधाना