________________
वादन्यायः
३०] 3a एव बहव एकार्थक्रियाकरण एकशब्दवाच्या भवन्तु किमर्थान्तरकल्प
षष्ठिवचनभेदादि चोद्यन्तान्प्रति युक्तिमत् ॥(९) यदाहुः॥
यद्य था वाचकत्वेन वक्तृभिर्विनियम्यते । अनपेक्षितवाह्यार्थन्तत्तथावाचकम्वचः ।(१०)
तदा न पुरुषेच्छाबलप्रवृत्तशब्दवसा[?वशा] दर्थतत्वं व्यवतिष्ठत इति तद वस्थं सन्दिग्धविपक्षव्यतिरेकत्वं हेतोरिति। एतेनैतदपि प्रत्युक्तं विप्रतिपत्तिविषयापन्नाच्चन्दनादन्ये रूपरसगन्धस्पर्शा हेयत्वादयश्च[?यश्चेति प्रतिजानीमहे न' व्यपदिश्यमाण[?न]त्वात् । शिलातुलाढकप्रसेविकावदिति। तस्मात्तद्भावप्रतिपादनाय न किञ्चित्प्रमाणमस्तीति स्थितमेतत् । अस्माकन्तु तदभावप्रमाणसाधकं प्रमाणमेतत् । ये परस्परव्यावर्त्तमानस्वभावावस्थितिसमालिङगित सरीरा[?शरीरास्ते व्यतिरिक्तावयविद्रव्यानुगतमूत्तिमात्मातिशयं नात्मसात्[? शात् कुर्वन्ति । यथा बहवो भस्माधा'रन (?) लालाथूकादयस्तथा च यथोपदिष्टधर्मवन्तस्तन्त्वादय इति स्वभावहेतुः। वैधhण नभःपडकजादयस्तेषानि(:)स्वभावत्वात् । परस्परव्यावर्त्तमानानामपि यद्येकस्वभावानभ्युपगमे तस्य तेषु सर्वात्मनाऽन्यथा वा वृत्त्ययोगो बाधकम्प्रमाणं। कुतस्तद्धि युगपदनेकत्र सर्वात्मना वर्तमानमनेकाधारस्थिताधेयवदनेकत्त्वमात्मनोऽनुमापयतीति . कथमस्याभिन्नस्वभावता योज्यते । एकावयवोपलम्भवेलायाञ्च सकलस्य तत्र परिसमाप्तत्वादपलब्धिप्रसङगः । अनेकाव यवोपलब्धिद्वारेणोपलम्भकतिपयावयवदर्शनेपि स्यात् समस्तावयवोपलम्भद्वारेण उपलब्धौ सर्वकालमदर्शनप्रसङगः। तस्याम्भास्वरमध्य भागानां सकृदनुपलम्भात् । एकावयवकम्पे च सर्वकम्पादिप्रसङगश्च वाच्यः। नाप्येकदेशेन सावयवत्वप्रसङगात्। एकदेशानाञ्चानवस्थाप्रसङगात्। तेपि हि तस्यावयवा इति पाण्यवयववृत्तेष्वपि अन्येन वत्तितव्यमित्यादिना तदन्यैकदेशाभाववानेकः कश्चिदवयवी विद्यते। तथा चाण्वादिसमुदाय एवास्तु कोनुरोधः स्वात्मभूतेष्ववयवेष्विति। न वा क्वचिदप्यसौ वृत्तो न हयेकदेशाः प्रत्येकमवयवीत्यलं प्रतिष्ठितमिथ्याप्रलापैरिति विरम्यते। ___ तदेवमेतत् परमतमलमालोच्यमानतीव्रतराक्रश्मिसंपातयोगिहिमशैलशिलाशकलवद्विलयमुपयातीति मन्यमानः प्राह। किमर्थान्तरकल्पन (3 a 1) येति। स्यादियत्तराशापरस्य नैवानेकस्यैकार्थक्रियाकारित्वमस्तीत्यत आह। बहवोपि ही(3 a 1)त्यादि। किंवत्। चक्षुरादिवत्। यथा रूपालोकमनस्कारचक्षुराद -