________________
१-निग्रहस्थानलक्षणम्
[२९ योहि तादृक्प्रकारेभ्योन्यत्वमभावादेव नाभ्युपैति स कथमिव भिन्नकर्तकत्वमभ्युपगमिष्यतीति। तदनन्तराभिहितमपि प्रमाणेन समभिलसित [? षित]मनोरथपरिपूरणायालं हेत्वसिद्धेः। यतः पट इति तन्तुष्वेव सन्निवेशविशेषेणावस्थितेषु प्रत्ययो वर्तते । तद्विविक्तरूपस्यात्यन्तमुन्मिषितचक्षुषाप्यदर्शनात्स्फटिकादौ दृष्टमिति चेत्। एतदुत्तरत्र निषेत्स्यामः। यत्त्विदमुपायान्तरसाध्यत्वाद् भिन्नदेशावस्थितैः क्रियमाणत्वात् भिन्नपरिमाणत्वात्पूर्वोत्तरकालभावित्त्वाद् भिन्नशक्तिमत्वाच्चेति॥
अत्र प्रथमसाधनाभिहितविकल्पदोषस्तीवामर्शविरक्तलोचन इवारातिस्तसम्पदन्न स'हते॥
प्रथमे सिद्धसाध्यत्वं द्वितीये हेत्वसिद्धता। क्षणिकत्वाद्विशिष्टानामुत्पादोभिमतो यत (:॥८)
इति सङग्रहश्लोकः । यच्चेदमुक्तं विचारविषयार्प"न[? पन्न] मिन्दीवरमित्यादि। तदपि न सङगच्छते। यस्मादिन्दीवरस्य गन्धादय इतीन्दिवर [? इतीन्दीवर स्वभावा गन्धादयो मधुभावनाविशेषादिकार्यनिवर्तन [? निर्वर्तन] समर्था इति यावत्। अविशिष्टकार्यसाधनात्मना सामान्यभूतगन्धादिशब्दैः प्रसिद्धाविशिष्टकार्यसाधनाख्येन विशेषेण ये विशिष्टास्त एवमुच्यन्ते । न पुनरत्रान्यत्' किञ्चिदित्यर्थावणितलक्षणं द्रव्यमस्ति तस्य तादृशोऽनुपलब्धेरित्युक्तप्रायं । तथा चानेन प्रकारेण तेषान्तद्वयवच्छेदकं भवतीति । तेषान्तद्वयच्छेदकं च न चात्यन्तं भिन्नमिति कोऽनयोविरोध इति । सन्दिग्धविपक्षव्यावृत्तिको हेतुःप्रतिबन्धासिद्धः । नहि दृष्टान्तमात्रासिद्धिरस्ति । सर्वसिद्धिप्रसङगात् । अपि च शिलापुत्रकस्य शरीरं । रूपस्य स्वभाव इत्यत्रापि शिलापुत्रकरूपयोः शरीरस्वभावव्यवच्छेदकत्वमस्तीति भेदस्तयोरपि ततः प्रसजते न च भवति। नैःस्वाभाव्यप्रसङगात् । तस्मादयमेतेनानकान्तिकः स्फुटमेव भवद्भिरभिधानीयः। किञ्चेदमतिविकलैर्मिथ्यादर्शनसंरागपिशाचाविष्टबुद्धिभिः किमिन्दीवरस्य गन्धादय इत्येते शब्दा(:) पुरुषाभिप्रायव्यापारनिरपेक्षा एव वस्तुतत्वनिबन्धनाः प्रवर्त्तन्ते। किम्वा यथैव तैः प्रयुज्यन्ते तथैव वस्तुतत्वमनपेक्ष्य तमर्थमसत्कारेण प्रतिपादयन्तीति (1)य द्याद्यः पक्षस्तदा सदाध्वननप्रसङगोऽतीतादिष्वन्यत्र च पुरुषेच्छावसा [?वशानियोजनन्नभवेत् । न च प्रवचनान्तरभेदेष्वर्थेषु प्रवृत्तिः प्राप्नोति। न च क'स्याश्चिद्वाचोऽसत्यार्थता स्यात् । अथोत्तरस्तदा।
येषाम्वस्तु वसा [? वशा] वाचो न विवक्षापराश्रया (:)।