________________
२८ ]
हिमवानिव मलयगिरेरिति भावः । एवन्तावत्पर' पक्षनिराकरणेन सनिदर्शनादिशब्दानामभिन्नविषयत्वं साधितं । त एव जडिम्नः पदमुद्वहन्तः पुनरपि पर्यनुयुञ्जते ।
वादन्यायः
+
ननु भवतु नाम सनिदर्शनादिशब्दानामभिन्नविषयत्वं । अथ कथमवसीयते । घटपटादिशब्दानामनेकार्थविषयत्वमिति यावता रूपादिव्यतिरिक्त ' मन्यदेवावयवि द्रव्यमस्ति । तदेव च घटपटादिशब्दविषयीक्रियते । तथाहि विचार - विषयापन्नः पटस्तन्तुभ्यो व्यतिरिच्यते भिन्नकर्तृकत्वात् घटादिवत् । तथा समस्तव्यस्तप्रत्ययाविषयत्वाद् गवादिवत् । नहि तन्तवः तन्तुसमुदाय इति वा पटे प्रत्ययो 'दुष्टः । उपायान्तरसाध्यत्त्वाच्च घटादिवत् । भिन्नदेशावस्थितैश्च क्रियमाणत्त्वात् । घटादिवदेव भिन्नपरिमाणत्त्वाच्च । वकुलामलकबिम्बादिवत् । अतश्च 20b पूर्वोत्तर कालभावित्त्वाद् बीजाङकुरादिवत् । अथवा पटादन्ये तन्तवस्तत्कारणत्त्वात् तुर्यादिवत् । तन्तुपटयोर्वाऽन्यत्त्वं भिन्नशक्तिमत्त्वात् जलानलादिवत् । तथेदमपरम्विचारविषयापन्नमिन्दीवरजगन्धादिभ्योऽत्यन्तभिन्नन्तेषाम्व्यवच्छेदकत्वात् । चैत्रादिवत् । इह यद्यस्य व्यवच्छेदकन्तत्तस्मादन्यत्तद्यथा गोपिण्डाच्चैत्र इत्येतानि तद्वयतिरेकसाधनप्रमाणानि सन्ति । तत्कथन्तेषाम्भिन्नविषयत्वम्भविष्यतीति ॥० ॥
तदेतदप्येषामसद्दर्शनाभिनिवेशपटलप्रच्छादितान्तःकरणानां नाल्पीयसस्तमसो दुविलसितमित्यागर्याह । घट इत्यपि च रूपादय एवैकार्थक्रियाकारिण एकशब्दवाच्या भवन्तु किमर्थान्तरकल्पनये ( 2 b 10 ) ति कार्यमित्युपस्क्रियते । नैव किञ्चित्तस्य तादृशस्य नीलादि व्यतिरेकेणानुपलक्षणादित्याकूतमस्य । यानि त्वेतानि तत्प्रतिपादनाय प्रमाणान्युक्तानि तान्यसिद्धतादिदोषदुष्टत्वान्नालं तद्भेदसाधनायेति भो' ता (?) नामेव पुरतः छायान्दधतीति मन्यते । तथाहि नेदं तावदाद्यं प्रमाणं परीक्ष्यमाणं पूर्व्वामपि परीक्षां क्षमते । यतोत्र विकल्पद्वयमाविर्भवति । अन्यावस्थावस्थितेभ्यो वा तन्तुभ्यः पटस्यान्यत्वं साध्यते विशिष्टसंस्थानावस्थितेभ्यो वेति । तत्र न तावदयमाद्यः प्रकारः सहते विचारभारगौरवं । सिद्धसाधनतादोषानुषङ्गात् । यस्मात्समधिगतसमस्तवस्तुयाथातथ्यसुगतसमयनयसमाश्रयप्रवृत्तिबलासादितावदातमतयः प्रसवानन्तरनि' रोधभाजः सर्व्वभावाइति प्रकल्पयन्ति । ततश्च तेभ्योन्यत्त्वमिष्टमेवेति सिद्धसाध्यताप्रसङ्गोपनिपातपिशाचः कथमिव भवन्तं न गृह्णाति । द्वितीयोपि विकल्पः तीव्रानलोपतप्त इवोपलतले तलानि पादानां न प्रतिष्ठां समासादप [ ? ]ति । हेतोः परं प्रत्यसिद्धत्वात् ।
212 नहि विशिष्टस्थानावस्थितेभ्यः पटस्य भिन्नकर्तृकत्वं परं प्रति सिद्धपद्धतिमवतरति