Book Title: Vadnyaya
Author(s): Shantrakshit Acharya
Publisher: Mahabodhi Sabha
View full book text
________________
वादन्यायः
३६] 3b सतोऽरूपादिरूपस्य ० तद्विवेकेन बुद्धौ स्वरूपेण प्रतिभासने किमावरणं ।
प्रभायां मणिभ्रान्तिरिव। न चार्थाविसम्वाद नादेवास्य सविषयत्वं युक्तमनु मानेन व्यभिचारात् । मणिभ्रान्त्या च। तदेव द्रव्यन्तथा गृह्णाति ततोन्यस्य निविषयत्त्वमिति चेत्। ननु न तद् द्रव्यन्त द्रूपन्न वान्याकारानुस्यूतः प्रत्ययोऽन्यस्य परिच्छेदक इत्युक्तं । एवञ्च सति सहिषयत्त्वे सत्यपेक्षेपि सद्विषयत्त्वमस्त्येव । तथा हि समाप्यतच्छक्यम्वक्तुं त एव नीलादयस्तथा प्रतिभासन्त इति । असति भ्रांतिसन्देहकारणे सालोकावस्थायां योग्यदेशावस्थाने च निरुपधानावस्थायाञ्च नोपलभ्यते (1) तत् द्रव्यमनात्मरूपप्रतिभासि विवेकेनान्यदा तु सति भ्रान्तिसन्देहकारणे निशान्धकारावच्छादितलोचनावस्थायां दूरदेशावस्थाने सोपधानावस्थायाञ्च तद'न्याकारविवेकेन प्रतिभासत इति कोन्यो भौतिकाद्वक्तुमर्हति। अयस्कञ्चुकान्तर्गते पुरुषप्रत्ययो न प्रत्यक्षः। किन्तर्हि (1) लैंगिकः । तथा हि पुरुषशरीरावयवसमाश्रयबलोद्भूतविशिष्टसंस्थानावस्थितकञ्चुक
दर्शनात्कालिंगज्ञानात् सम्बन्धस्मरणापेक्षिणः कारणभूते तथाविधे पुंसि 26b पुरुषोयमित्यनन्तर मेव प्रत्ययः समुद्भूतिमासादयति । अत एव चास्पष्टाकारा सा
प्रतीतिः कश्चायमिति संशयश्च भवति । तथाविधसंस्थानस्य च कञ्चुकस्योत्पत्तेः पुरुषरूपादय एव हेतवो भवन्ति नत्वन्यदवयवि द्रव्यं । तस्यासिद्धरसिद्धस्य च कारणत्वाभ्युपगमायोगात् । रूपादिभिस्तु प्रत्यक्षानुपलम्भाभ्याङकार्यकारणभावसिद्धेः । तेषामेव केवलानान्तथा सन्निविष्टानामुपलम्भात् । पटे तु कषायमञ्जिष्ठादिसम्पर्कादर्थान्तरमेव केवलन्तत्तथा जातमीक्ष्यते। नतु नानारूपयोर्द्रव्ययोः संसर्गादविभागात् तथोपलम्भः । पुनस्तद्रव्यसंस्थानस्थितिकारणविच्छेदात्तनिवृत्तिः । तदुपादानकारणापेक्षिणश्च जलपावकादेरपरोत्त्पत्तिरिति । एतेनायोगोलकतद्रूपग्रहणेपि तत्प्रत्ययो दृष्ट इत्येतदपि प्रतिस्फुटं। तदेवं द्रव्यस्य प्रत्यक्षत्वासिद्धर्यदुक्तङगवाश्वमहिषवराहमातङगा विमत्यधिकरणभावापन्ना रूपादिव्यतिरिक्ता इत्येव घोषणा। ऐन्द्रि (यक) त्वे सति समस्तरूपादिग्राहकवाक्येन्द्रियानवच्छेद्यत्वात्प्रीत्यादिवदिति त दपहस्तितं । प्रयोगाः पुनः । यद् दृश्यं सत्सद्व्यतिरेकेण नोपलभ्यते तत्ततो भिन्नन्नाभ्युपेयन्नास्तीति वाभ्युपगन्तव्यं । यथा नरशिरसि विषाणनोपलभ्यते च दृश्यं' सन्नीलादिषु तद्वयतिरेकेण सामान्यविशेषसंयोगविभागपरत्वापरत्वादिकमिति स्वभावानुपलब्धिः। नास्य सिद्धिः। दृश्यत्वेन स्वयमभ्युपगमात् । तथा रूपाद्यर्थपञ्चकव्यतिरिक्तत्वेनोपगतं द्रव्यन्नचक्षुःप्रत्ययावसेयमुपलब्धिलक्षणप्राप्तत्वेनोपगतत्वे सति नीलादिवस्तुरूपविरहात् । शब्द

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194