Book Title: Vadnyaya
Author(s): Shantrakshit Acharya
Publisher: Mahabodhi Sabha

View full book text
Previous | Next

Page 80
________________ १-निग्रहस्थानलक्षणम् वासपक्ष इति। यस्यापि हि साधनकाले पक्षप्रयोगोस्ति तस्यापि न वाद्यकाण्डमेव पक्षं जातेऽनित्यः शब्द इति । कस्तु प्रस्तावान्तरेना[? रेणापि प्रकरणबलेनैव पक्षधर्मत्वादयोपि वक्तव्या (:)। तच्च पक्षप्रयोगदृषकस्यापि समानं। तस्मात्प्रतिज्ञावचनं न साधनांगं । ___उपनयनिगमनवचनन्तु यथा न साधनाङगन्तथोच्यते ॥ तत्रतावदुदाहरणापेक्षस्तथेत्युपसंहारो न तथेति वा साधनस्योपनयः (न्या० सू० ११२।३८)। यथा तथेतिप्रतिबिम्बनार्थ। किम्पुनरत्र प्रतिबिम्बनन्दृष्टान्तगतस्य धर्मस्याव्यभिचारत्त्वे सिद्धे। तेन साध्यगतस्य तुल्यधर्मता। एवञ्चायकृतक इति साध्येन सह सम्भव उपनयार्थः । ननु च कृतकत्वादित्यनेन सम्भव उक्तः। नोक्तः। साध्यसाधनधर्ममात्रनिर्देशात् । साध्यसाधनधर्ममात्रनिर्देशः कृतकत्वादनित्यः शब्दो भवति । तत्पुनः शब्दे कृतकत्त्वमस्ति। नास्तीत्युपनयेन सम्भवो गम्यते । अस्ति च शब्दे कृतकत्वमिति । तथा च हेतुवचनाद् भिन्नार्थप्रतिपादकत्वमुपनयस्याभिन्नरूपत्वे प्रसिद्धपर्यायव्यतिरिक्तत्वे च सति हेतुवचनोत्तरकालमुपादीयमानत्वात् दृष्टान्तवचनवदिति शक्येत अनुमातुं । ___ हेत्वपदेशात् प्रतिज्ञायाः पूनर्वचननिगमनं (न्या० सू० ॥१॥३९)। प्रतिज्ञायाः पुनर्वचनमिति प्रतिज्ञाविषयस्यार्थस्याशेषप्रमाणोपपत्तौ विपरीतप्रसङगप्रतिषेधार्थ यत्पुनरभिधानं तनिगमनं । न पुनः प्रतिज्ञाया एव 45a पुनर्वचनं। किङकारणं यस्मात्प्रतिज्ञासाध्यनिर्देशः सिद्धनिर्देशो निगमनमिति । पुनः शब्दश्च नानात्वे दृष्टः (1) पुनरियमचिरप्रभा निश्चरति । पुनरिदडगन्धवनगरं दृश्यत इति । अत्र च सामर्थ्यादुपनयानन्तरभावी हेत्वपदेशो गृहयते । न प्रतिज्ञानन्तरभावी । असम्भवात्। नहि कश्चित्प्रतिज्ञा नन्तरं हेत्वपदेशानिगमनं प्रयुंक्ते । अनित्यः शब्दः कृतकत्वात्। तस्मादनित्यः शब्द इति । अतश्च प्रतिज्ञार्थवाक्याद् भिन्नार्थं निगमनवचनं । प्रतिज्ञावाक्याद् भिन्न रूपत्वे सति हेतुवचनोत्तरकालमभिधीयमानत्वात् दृष्टान्तवचनवत् । न च साध्यार्थप्रतिपादकनिगमनं । शब्दान्तरोपात्तस्यावधारणरूपेण प्रवृत्तत्वात् । योय मागच्छत्ययं विषाणीति केनचिदुक्ते तस्मादनश्व इत्यादिवचनवत् । तस्माच्छब्दसहितं वाक्यम्विचारविषयाय प्रसाध्यार्थप्रतिपादकन्न भवति । कारणोपदेशोत्तरकालमुपात्तत्त्वात् । दृष्टान्तः पूर्ववत्। तदेतत् प्रतिषिध्यते न खल्वेवं प्रयोगः क्रियते । अनित्यः शब्दः कृतकत्वात्। प्रतिज्ञाप्रयोग स्यानन्तरं निराकृतत्वात् । अपि तु कृतकः शब्दः । यश्च स सर्वोऽनित्यो यथा कलशादिः। यो वा कृतकः स सर्वोऽनित्यो यथा घटादिः।

Loading...

Page Navigation
1 ... 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194