________________
१-निग्रहस्थानलक्षणम् वासपक्ष इति। यस्यापि हि साधनकाले पक्षप्रयोगोस्ति तस्यापि न वाद्यकाण्डमेव पक्षं जातेऽनित्यः शब्द इति । कस्तु प्रस्तावान्तरेना[? रेणापि प्रकरणबलेनैव पक्षधर्मत्वादयोपि वक्तव्या (:)। तच्च पक्षप्रयोगदृषकस्यापि समानं। तस्मात्प्रतिज्ञावचनं न साधनांगं । ___उपनयनिगमनवचनन्तु यथा न साधनाङगन्तथोच्यते ॥ तत्रतावदुदाहरणापेक्षस्तथेत्युपसंहारो न तथेति वा साधनस्योपनयः (न्या० सू० ११२।३८)। यथा तथेतिप्रतिबिम्बनार्थ। किम्पुनरत्र प्रतिबिम्बनन्दृष्टान्तगतस्य धर्मस्याव्यभिचारत्त्वे सिद्धे। तेन साध्यगतस्य तुल्यधर्मता। एवञ्चायकृतक इति साध्येन सह सम्भव उपनयार्थः । ननु च कृतकत्वादित्यनेन सम्भव उक्तः। नोक्तः। साध्यसाधनधर्ममात्रनिर्देशात् । साध्यसाधनधर्ममात्रनिर्देशः कृतकत्वादनित्यः शब्दो भवति । तत्पुनः शब्दे कृतकत्त्वमस्ति। नास्तीत्युपनयेन सम्भवो गम्यते । अस्ति च शब्दे कृतकत्वमिति । तथा च हेतुवचनाद् भिन्नार्थप्रतिपादकत्वमुपनयस्याभिन्नरूपत्वे प्रसिद्धपर्यायव्यतिरिक्तत्वे च सति हेतुवचनोत्तरकालमुपादीयमानत्वात् दृष्टान्तवचनवदिति शक्येत अनुमातुं । ___ हेत्वपदेशात् प्रतिज्ञायाः पूनर्वचननिगमनं (न्या० सू० ॥१॥३९)। प्रतिज्ञायाः पुनर्वचनमिति प्रतिज्ञाविषयस्यार्थस्याशेषप्रमाणोपपत्तौ विपरीतप्रसङगप्रतिषेधार्थ यत्पुनरभिधानं तनिगमनं । न पुनः प्रतिज्ञाया एव 45a पुनर्वचनं। किङकारणं यस्मात्प्रतिज्ञासाध्यनिर्देशः सिद्धनिर्देशो निगमनमिति । पुनः शब्दश्च नानात्वे दृष्टः (1) पुनरियमचिरप्रभा निश्चरति । पुनरिदडगन्धवनगरं दृश्यत इति । अत्र च सामर्थ्यादुपनयानन्तरभावी हेत्वपदेशो गृहयते । न प्रतिज्ञानन्तरभावी । असम्भवात्। नहि कश्चित्प्रतिज्ञा नन्तरं हेत्वपदेशानिगमनं प्रयुंक्ते । अनित्यः शब्दः कृतकत्वात्। तस्मादनित्यः शब्द इति । अतश्च प्रतिज्ञार्थवाक्याद् भिन्नार्थं निगमनवचनं । प्रतिज्ञावाक्याद् भिन्न रूपत्वे सति हेतुवचनोत्तरकालमभिधीयमानत्वात् दृष्टान्तवचनवत् । न च साध्यार्थप्रतिपादकनिगमनं । शब्दान्तरोपात्तस्यावधारणरूपेण प्रवृत्तत्वात् । योय मागच्छत्ययं विषाणीति केनचिदुक्ते तस्मादनश्व इत्यादिवचनवत् । तस्माच्छब्दसहितं वाक्यम्विचारविषयाय प्रसाध्यार्थप्रतिपादकन्न भवति । कारणोपदेशोत्तरकालमुपात्तत्त्वात् । दृष्टान्तः पूर्ववत्। तदेतत् प्रतिषिध्यते न खल्वेवं प्रयोगः क्रियते । अनित्यः शब्दः कृतकत्वात्। प्रतिज्ञाप्रयोग स्यानन्तरं निराकृतत्वात् । अपि तु कृतकः शब्दः । यश्च स सर्वोऽनित्यो यथा कलशादिः। यो वा कृतकः स सर्वोऽनित्यो यथा घटादिः।