________________
६२]
वादन्यायः द्वयात्मकं प्राप्त । अथ न प्रमाणसामर्थ्यात् तो निश्चितावपि तु स्वस्मात्स्वस्मादाग मात्। एवमपि तु धर्मयोः प्रमाणेन निश्चयात् कथन्न पक्षवचनात् संशयो भवतीति वाच्यं । तस्मात् पक्षवचनं न साक्षात् साधनं । नापि पारम्पर्येण साध्याभिधायकत्वेनासिद्ध हेतुदृष्टान्ताभासोक्तिवदशक्यसूचकत्वात् । हेतुवचनन्तु शक्यसूचकत्वात् शक्तितः साधननिष्टं सदोच्यते साधनाङगम्प्रतिज्ञाव'चनत्वे सति साधनोपकारकत्वाद्धेतुवचनवत्। साधनविषयप्रकाशनद्वारेण च प्रतिज्ञासाधनमनुगृह्णाति । अन्यथाहयविषयं तत्साधनं प्रवर्तते । ज्ञा'नात्ममनःसन्निकर्षादीनामपि साधनोपकारकत्वमतो वचनत्वे सतीति विशेषणं। इतश्च साधनाङगसाध्यसाधनविषयप्रकाशनात् दृष्टान्तवचनवदिति । इदमप्यत्यर्थमसारं। यस्मादनित्यं शब्दं
साधयेत्यभ्यर्थना वाहचं वचनत्वे सति साधनोपकारकं साध्यसाधकविपर्ययप्रकाश44a कञ्च न च तदन्तरङग साध्यसिद्धा वाङगं। को वा विषयोपदर्शनस्योपयोगो यदि
हयनेन विना न साध्यसिद्धिः स्यात् । सर्व सोभेत[? शोभेत] यावता विनाप्यनेन यावत् । (यः) कश्चित्कृतकः स सर्वोऽनित्यो यथा कुम्भादिः' शब्दश्च कृतक इत्यनुक्तेपि पक्षशब्दोऽनित्य इत्यर्थाङगमात्र एव । तस्मादस्य निर्देशो निरर्थक एव । स्यादयं विपर्यासो यदि हेतुव्यापारविषयोपदर्शनाय पक्षवद् वचनन्नैव प्रयुज्यते तदा कथम्पक्षसमाश्रयलब्धव्यपदेशा। पक्षधर्मत्वादयः सम्पद्यन्ते। तेषु वा निश्रितात्मसुसम्भूतसामात् पक्षगतिरसम्भाव्यैव । सामर्थ्य लभ्यपक्षबलेन पक्षधर्मत्वादयः सम्पद्यन्त इत्यप्ययुक्तं । तेष्वसत्सु सामर्थ्यलभ्यस्यैव पक्षस्यासम्भवात् । अन्योन्याश्रयं चेदम्पक्षधर्मत्वादिसामर्थ्या यातपक्षवशेन पक्षधर्मत्वादयः सम्पद्यन्ते । पक्षधर्मत्वादिबलेन च पक्ष इति। तदत्रोच्यते। न खलु साधनकाले पक्षधर्मत्वादिविकल्पोऽस्ति केवलं यत्रैव जिज्ञासितविशेषे धर्मिणि शब्दादौ तु च करीशादिस्थगिततेजसि वा कुण्डादौ यो धर्मः कृतकत्वधूमत्वादिलक्षणोनुमानतः प्रत्यक्षतो' वा प्रतीयते । प्रत्याय्यते वा। तद्विशेषयोगितया वा निश्चितेऽपरस्मिन्घटमहानसादावस्थितत्वेन स्मर्यते तद्विशेषविरहिणि वा गगनसागरादौ नास्तित्वेनैव स्मर्यते। स वस्तुधर्मतयैव विनापि पक्षधर्मत्वादिव्यपदेशेन तत् धर्मिणं जिज्ञासितधर्मविशिष्टं सामर्थ्यादेव प्रतिपादयति । स चास्य सामर्थ्यविषयः पक्ष इति गीयते । ततः पश्चात् तत्समाश्रय
भाविन्यो यथेष्टपक्षधर्मत्वादिसंज्ञाः शास्त्रेषु संव्यवहारार्थम्प्रतन्यन्ते। यदि वा प्रत्या44b लोचनप्रकरणबलात् साधनका लेपि भवन्तु पक्षधर्मत्वादिविकल्पाः। कथं योहि
वस्तुनो धर्मो वादिना विवा(दा)स्पदीभूतमिविशिष्टतया साधयितुमिष्टःस पक्षस्तस्य योन्यो धर्मः स पक्षधर्मः। प्रकृतसाध्यधर्मसामान्येन च समानोर्थः सपक्षः। तद्विरही