________________
१-निग्रहस्थानलक्षणम् वचनसमुदायः । तस्याङ्गं पक्षधादिवचनं तस्यैकसाध्यवचनमसाधनाङ्गवचनं, तदपि वादिनो निग्रहस्थानं, तदवचने हेतुरूपस्यैवावचनमवचने च सिद्धेरभावात् ॥ त् ॥
अथवा तस्यैव साधनस्य यन्नाङ्गं प्रतिज्ञोपनयनिगमनादि तस्या साधनाङ्गस्य साधनवाक्ये उपादानं वादिनो निग्रहस्थानं, व्यर्थाभिधानात् ॥ त्॥
च पर्याये साधनशब्दः करणसाधनः। इहाङगशब्दोऽवयववचनः पूर्वस्मिन्कारणवचन इति विशेषः। त्रिरूपहेतवचन'समदायग्रहणेन तेष लक्षणादिवचनानां साधनत्वं तिरयति। स्याद् बुद्धिः साधर्म्यवति प्रयोगेनासपक्षे हेतोरसत्वमुच्यते । वैधर्म्यवति च न सपक्षसत्वमनन्तर मेव निषेध्यमानत्वात् । तत्कथन्तस्यैकस्याप्यवचनमसाधनाङगवचनमित्येतन्न वक्ष्यमाणे व्याहतमिति । एतच्च नैवमेव हि व्याख्यायते। त्रिरूपो हेतुरर्थात्मकः । परमार्थतोवस्थितस्तस्य वचने ये प्रकाशके पक्षधर्मवचनं सपक्षसत्ववचने पक्षधर्मवचनं विपक्षसत्ववचने वा तयोस्समुदायः तस्य व'चनद्वयसमुदायस्याङगम्पक्षधर्मादिवचनमिति पक्षधर्मवदनन्तावदविचलमितरयोः त्वन्यतरान्यतरत् कादाचित्कं। तेन वचनद्वयसमुदायरूपस्याङगिनोडगं द्विविधमेव सदा तस्येदानीमङगस्यैकस्याप्यवचनमसाधनाङगम्वचनं। न केवलं द्वयोः प्रथमव्याख्यानुसारेणेत्यपि शब्दात् । द्वयोयवचनं तूष्णीम्भावः। स चोक्तोऽप्रतिभया तूष्णीभावादिति पर्यायान्तरमप्याह।
अथवे (6br)त्यादि । तस्यैवेति त्रिरूपवचनसमुदायस्य यन्नाङगं ना'वयवः । कथं पुनः प्रतिज्ञादीनामसाधनाङगत्वमिति चेत् । उच्यते। प्रतिज्ञावचनसाधनं । साक्षात् पारंपर्येण वा तस्याः सिद्धरनुत्पत्तेः तथाहयर्थ एव प्रतिबन्धार्थङगमयति । नाभिधानमर्थप्रतिबन्धविकलत्वात् तस्मात् प्रतिज्ञावचनं हेतुवचनं वा न साक्षात्साधनमर्थसिद्धौ। संशयश्च पक्षवचनादयें दृष्टो' न 43b निश्चयस्तदतोपि न साक्षात् साधनं । स्यान्मतं संशय एवासिद्धः पक्षवचनाद्वादिप्रतिवादिनोनिश्चितत्वादथान्येषां भवति । एवं सति कृतकत्वादिवचनेप्यव्युत्पं [? व्युत्पन्]'नानां संशयो भवतीत्यनेकान्तः। तदेतदसम्बद्धं। वादिप्रतिवादिनो हि निश्चितत्वमेकस्मिन् वा धर्मेऽनित्यत्वादिके प्रत्याययितुमारब्धे भवेत् प्रत्यनीकधर्मद्वये वा ॥ न तावदेकस्मिन् विवादाभावतः। साधनप्रयोगानर्थक्यप्रसङगात् (1) नापि प्रत्यनीकधर्मद्वये वस्तुनो विरुद्धधर्मद्वयाध्यासप्रसङगात् । यदाहोकस्मिन्वस्तनि प्रमाणबलेन विरुद्धौ धमौं वादिप्रतिवादिभ्यां निश्चितौ भवतस्तदा तद्वस्तु