________________
वादन्यायः
६०] तद्विरुद्धोपलब्धिष्वपि द्वयोविरुद्धयोरेकस्य विरुद्धस्योपदर्शनं समर्थनं । ___ एवमनुपलब्धौ साधनाङ्गस्यासमथेनं साधनाङ्गावचनं तद्वादिनो निग्रह6b स्थानमसमर्थ ने तस्मिन्व्याप्यासिद्धः ॥ त् ॥ .
अथवा साध्यते तेन परेषामप्रतोतोर्थ इति साधन त्रिरूपहेतु
भावो न निश्चीयते क्वचित् कुतश्चिद् भ्रान्तिनिमित्तात् तत्रैवेयं प्रयुज्यते। कारणानुपलब्धिरपि यत्र कार्याभावो न निश्चीयते तत्रैव प्रयोक्तव्या नान्यत्र वैयर्थ्यात् । यथा सन्तमसे धूमाभावानिश्चये नास्त्यत्र धूमोऽग्न्यभावादिति । कार्याभावे संशयात् । कारणाभावे च निश्चयात्। स्वभावविरुद्धोपलब्धिरपि संगविषयभावावस्थितगात्रस्पर्शवालाकलापाकुलानलालीढ एव व्योमादिमात्रवर्तिनिर्देशे प्रयोक्तव्या। कारणविरुद्धोपलब्धिश्चाप्यदृश्यमानकमारोमोद्ग'मदन्तवीणादिभेदभावाभा वाक्य
शक्यगानुसमीपावस्थितपुरुषसमाक्रान्तभूतल एव प्रकृतेनान्यत्र वैफल्यात् । अनया42b दिसा[? दिशा]ऽन्यासामप्यनुपलब्धीनाम्प्रयोगविषयोऽनुसतव्य इति । तेषां स्वभाव
व्यापककारणानां। विरुद्धास्तेषामुपलब्धयस्तास्विति विग्रहः। द्वयोविरोधयोर्मध्ये एकस्योपदर्शनं । द्वौ पुनर्विरोधावविकलका रणस्य भवतोन्यभावे भावः। परस्परपरिहारस्थितलक्षणश्च। अनया दिशा स्वभावविरुद्धकार्योपलब्ध्यादिष्वपि साधनाङगसमर्थनं सुज्ञानमेवेति नोक्तं। तथापि किञ्चिन्मात्रप्रयोगभेदादेकादशानुपलब्धिव्यतिरिक्तास्वपि कारणविरुद्धव्याप्तोपलब्धिकार्यविरुद्धव्याप्तोपलब्धिव्यापकविरुद्धकार्योपलब्धिकार्यविरुद्धकार्योपलब्ध्यादिषु साधनाङगसमर्थनमुक्तम्वेदितव्यं । तासां पुनरुदाहरणानि यथाक्रम। नात्र धूमस्तुषारस्पर्शात्। नेहाप्रतिवद्धसामर्थ्यानयग्निकार णानि सन्ति तुषारस्पर्शात् ।न तुषारस्पर्शोऽत्र धूमात् । नेहाप्रतिबद्धसामर्थ्यानि शीतकारणानि सन्ति धूमादिति।
हेतुकार्यविरुद्धाप्तभावो व्यापक कार्ययोः । विरुद्धकार्ययोरन्यः प्रतिषेधस्य साधकः ॥(१५) नेह धूमो हिमस्पर्शात् समर्थन्नाग्निकारणं । नेह धूमाद्धिमस्पर्शो न शक्यं शीतकारण (१६)मिति (-) सङग्रहश्लोको।
एवं तावदेकेन प्रकारेणासाधनाङगवचनत्वादिनो निग्रहस्थानमिति प्रतिपादितं । प्रकारान्तरेणापि तदेवोपपादयति । अथवेत्यादि' (6b1)न चेति समुदायश्चायमत्रा
वृत्या पूर्वोदितार्थपरित्यागेनार्थान्तरसमुच्चये वर्त्तते ॥ नतु धवस्थित्याथवा खदिर43a मित्यादाविव पूर्वार्थपरित्यागेन विकल्पादिवि धस्याप्यर्थस्य विवक्षितत्वात् । इह