________________
१-निग्रहस्थानलक्षणम्
[५९ स्य सत्त्वे रूपान्तरमस्ति । न च रूपप्रतिभासभेदे वस्त्वभेदो युक्तोऽतिप्रसङ्गात् । तस्माद्य उपलब्धिलक्षणप्राप्तस्वभावाऽनुपलब्धिः स नास्त्येव । न हि तस्य तत्स्वभावस्थितावनुपलब्धितः स्थितिश्चासत्त्वं । परस्परन्तथास्थितयोरेव दुःखसुखयोरिति व्याप्तिर(स)द्वयवहारनिश्चयेनानुपलब्धिविशेषस्य तेनानुपलब्ध्या कस्यचिद्वयवच्छेदं प्रसाधयता तस्य यथोक्तोपलब्धिलक्षणप्राप्तिरूप(ता) दर्शनीया । उपदानुपलब्धिनिर्देशासमर्थनं स्वभावा'नुपलब्धौ व्यापकानुपलब्धावपि (1) धर्मयोाप्यव्यापकभावं प्रसाध्य व्यापकस्य निवृत्तिप्रसाधनं समर्थनं (1) कारणानुपलब्धावपि कार्यकारणभावं प्रसाध्य कारणस्य निवृत्तिप्रसाधनं समर्थनं ।
यतां किमलीकनिर्बन्धेनेति। अवस्थातुर्भावादसावप्यस्तीति चेदाह । नहि रूपान्तरस्य भावे रूपान्तरमस्ति (6a5)। पीत इव नीलमिति विरुद्धव्याप्तोपलब्धिराकूता। न चावस्थावस्थात्रोरभेदादसिद्धो हेतुरिति गजितव्यं । यस्मान्न च रूपप्रतिभासभेदेपि वस्तुभेदो युक्त (:)अतिप्रसङगात्।
त। रूपप्रतिभासभेदग्रहणमुपलक्षणार्थ। तेनार्थक्रियाभेदोप्यभ्युपगन्तव्यः। एवं मन्यते। यदि भिन्नप्रतिभासि ज्ञानं भेदं साधयति तदा सुखदुःखमोहानां असङकीर्णा भेदव्यवस्था भवेत् । नान्यथा तथा च मृत्पिण्डघटयोरपि परस्परमत्यंतम्भेद इति प्रतिजानीमहे। भिन्नाकारज्ञानपरिच्छेद्यत्वात्। परस्परासम्भविकार्यकारित्वाच्चसुखादिवदिति स्वभावहेतू । अन्यथा सुखादीनामपि परस्परमभेदप्रसङगः शक्तिव्यक्तिवत् । विशेषो वा वाच्य इति।' तस्मादित्युपसंहारः। नहि तस्य घटादेस्तस्मिन्नुपलब्धिलक्षणप्राप्ते स्वभावे स्थितौ सत्यामनुपलब्धियुज्यते। अथापि भवति तदाऽस्थितिश्च तस्मिन्स्वभावेऽतत्वमत - त्स्वभावत्वमुपलब्धिलक्षणप्राप्तात्स्वभावादेकान्तेन भेद इति यावत्।। ___एवंस्वभाव(1)नुपलब्धौ साधनाङगसमर्थनं प्रपञ्चेनाभिधाय परिशिष्टास्वनुपलब्धिष्वाचिख्यासुराह'। व्यापकानुपलब्धावि(6a8)त्यादि । धर्मयोर्यथा शिशपा- 42a त्ववृक्षत्वयोर्व्याप्यव्यापकभावं केनचित्प्रमाणेन प्रसाध्य व्यापकस्य वृक्षत्वादेनिवृत्तिप्रसाधनं समर्थनं साधनाङगस्येत्यध्याहारः। यथा नास्त्यत्र शिशपा वृक्षाभावादिति। ननु तत्र स्वभावानपलब्ध्यैव तदभावः सिध्यति तत्किमनया। नहि निष्पादितक्रिये कर्मणां विशेषाधायि साधु साधनम्भवति । साधकतमकरणमिति (पाणिनिः १।४। ४२) वचनात् अनधिगतार्थाधिगमरूपञ्च प्रमाणमुक्तमज्ञातार्थप्रकाशो वेति। सत्यमेतत्। तथाहि नेयं सर्वत्र प्रयुज्यते। किन्तहि व्योमगतत्रपादिमात्रे यत्र सालसरलपलाशशिंशपादिपादपभेदावधारणन्नास्ति तत्र। सर्वथा यत्रैव व्याप्या