________________
५८ ]
मः स्वहेतोरित्यनादिभावस्वभावनियमः ।
अपि च । यदि मृत्पिण्डे घटोस्ति कथं तदवस्थायां न पश्चाद्वदुपलब्धि:, तदर्थक्रिया वा । व्यक्तेरप्रादुर्भावादिति चेत् । तस्या एव तदर्थ - क्रियादिभावे घटत्वात्तद्रूप 'स्य च प्रागसत्त्वात्कथं घटोस्ति (1) न हि रूपान्तर
वादन्यायः
सन्नप्ययं निश्चयः साधनवचनादनभिव्यक्तं । पूर्व्वमभिव्यक्तिमुपयात्यतो न वैफल्यमिति मतमत आह। यस्य कस्यचिदतिसय [ ? शय ] ' स्या ( 6a1 ) भिव्यक्तिलक्षणस्य तत्र साध्ये निश्चयरूपे कथञ्चिदसत उत्पत्तौ प्राप्तात्साधनात् 412 सोऽतिशयस्तत्रासन् कथञ्जायते । जातो वा सर्व्वातिशयः । समस्तसाध्यनिश्चयाभिव्यक्तिलक्षणः सर्व्वस्मादन्यसाधनात् साधनाभासात् वोत्पद्येतेति तुल्यः प्रसङ्गः । पावकादिप्रतिपत्तिहेतवो' धूमादयः सत्कार्यविनिश्चयाद्यभिव्यक्तिङ्कुर्युरित्यर्थः । उत्पत्त्य चाभिव्यक्तिमेतदुच्यते । नत्वियमविकृतरूपेषु कृतास्पदा सा हि तत्स्वरूपलक्षणा तद्विषयज्ञानलक्षणा । रूपान्तरप्रादुर्भावलक्षणाभावा भवेत्स्वरूपं तावत् अविकार्यमिति न साधनैरन्यैर्वा कर्तुं शक्यते । विकारे वा पूर्व्वस्वभाववानिव पूर्व्वरूपप्रादुर्भावश्चेत्यसत्कार्यवाद एव समर्थितः पूर्वापररूपत्यागावाप्तिलक्षणत्वात् विकारस्य । चैतन्यस्यैकत्वादपरस्तद्विषय: प्रत्ययो न भवति परस्येति तद्रूपाभि व्यक्तिरनुपपन्ना । रूपान्तरप्रादुर्भावे च नान्यस्य किंचिदप्युपजायते विलक्षणत्वादिति तृतीयापि व्यक्तिरसम्भविनी द्वितीयायामप्ययमनिवारितो' दोषः । तद्विषयप्रत्ययोदयेप्यर्थान्तरस्याभूतभाववैपरीत्यस्य व्यक्तेरयोगात् । न चानुपकारकः प्रत्ययस्य विषयः सम्भवी । तदुपकारकत्वे वा तस्मादेवास्योत्पत्तिरिति लिङ्गानपेक्षा । स्वत एव साध्यनिश्चयोस्याभिव्यक्तिरिति प्राप्तं । साधनापेक्षादेव साध्यनिश्चयात् स्वविषयज्ञानोत्पादेनैवापेक्षातिश'योत्पत्तिलक्षणास्थिरेषु लब्धास्पदेति प्रतिपादितं सर्व्वदा वा भवेत् । लिङगस्यापि सदा सन्निहितरूपत्वात् । लिङ्गज्ञानापेक्षायामपि तुल्यः । तस्यापि सत्वे वादिनः सर्व्वकालास्तित्वादिति ।
अपि चेत्यादिना सत्कार्यवादनिराकरणे कारणान्तरमाह । तदवस्थायामिति 41b (624) (1) मृत्पिण्डावस्थायां पश्चाद्वदभिव्यक्तावस्थायामिव तदर्थक्रियेति' घटसाध्योदकधारणविशेषाद्यर्थक्रिया । व्यक्तेरविशिष्टसंस्थानाया अप्रादुर्भावादिति चेत् । परमतासङका [? शङ्का ] तस्या एवेत्यादि प्रतिविधानं । एतदुक्तम्भवति । ग्रीवादिसन्निवेशविशेषावच्छिन्न एषोर्थक्रियाविशेषकारी कश्चित् मृद्विकारो घट इत्युच्यते नान्यः । स चेत् प्रागपि मृत्पिण्डावस्थायामपि तदाव्यक्तावस्थायामिव तदर्थक्रियोपल्ब्धौ स्यातां । न च भवतस्तस्मान्नास्त्येवासाविति निश्चयः समाधी