________________
१-निग्रहस्थानलक्षणम्
[५७ भावस्तत्र च तस्य जन्म नान्यस्मादिति नियमः । तस्यापि स स्वभावनिय
न्महान् एव जायते नाहडकारो महतो ऽहडकारो न पञ्चतन्मात्राणीत्या दि प्रक्रिया। तत्र च भवतः शक्तिप्रतिनियमावलम्बनमेव सरणं [? शरणं]। अन्यस्य परिहारोपायस्याभावात् (1) तदेतच्च न ममापि काकेन भक्षितं । तेन यदुक्तन्नह्यसत्वे कश्चिद् विशेष इति तदयुक्तिमत्। कारणसामर्थ्यासामर्थ्यकृतत्वात् कार्योत्पत्यनुत्पत्योः। तस्मात् पुरोनुक्रान्तयोः प्रमाणयोः सन्दिग्धवि पक्षव्यावृत्तिकत्वसाधनकलङकाङकितो हेतुरिति । भवेदेतत्तस्यापि हेतो (:) तज्जननस्वभावनियमः। कुतो जात इत्यत आह । तस्यापि स स्वभावनियमः । स्वहेतो' रिति (6a4)। तस्यापि स कुत इति चेदाह। इत्येवमनादिभावस्वभावनियम इति। न विद्यते आदिरस्येति विग्रहः अनादित्वाभ्युपगमाद्धेतुफलप्रकृति परंपराया नानवस्थादोषो लघीयसीमपि क्षतिमावहत्यन्यथाऽदौ कल्प्यमाने तस्याहेतुकत्वप्रसङगस्तैनास्थान एवेयमाशङका भवत इति भावः। अथवान्यथा
यङग्रन्थो व्याख्यायते (1) निष्पर्यायेणासन्नेव तटतिशयो जायते। न च 40b सव्वं सर्वस्माज्जायतेति पर्यनुयोज्यं । यो यज्जननस्वभावस्तत एव तस्यातिशयोत्पत्तिरिति शक्तिनियमसमाश्रयादिति कदाचित्स्वसिद्धान्तमनादृत्यापि परोभिदधात्याशङकायां न ममाप्येतच्छक्तिप्रतिनियमावलम्वनङकेनचिद्दण्डेन निवारितमित्याग्र्याह। असतोपी (6a3)त्यादि। पदवि भागस्तु पूर्ववत्। प्रयोगो [? प्रयोगः] पुनर्यस्य यज्जननाय समर्थं कारणमस्ति सोसन्नपि जायत एव यथातिशयविशेषः । तज्जननाय समर्थङकारणमस्ति च कार्यविशेषस्येति स्वभावहेतुः ।
तथा यो यत्राविद्यमानतज्जननसमर्थकारणः स तत्रासत्वेपि नोदेति। यथा . तिलेषु घृतातिशयस्तथा चाविद्यमानतज्जननसमर्थकारणः* कार्यविशेषः कारणविशेष इति व्यापकानुपलब्धिः। अपरः पर्यायः। साधनस्य लिङगस्य।
सदकारणादुपादानग्रहणात् सर्वसम्भवाभावात् । शचसम्म शक्यस्य शक्यकरणात् कारणभावाच्च सत्कार्य (॥१४)
इत्येवमादेर्वैफल्यं । साध्यस्य कर्तव्यस्य कस्यचित्संशयविपर्यासव्यवच्छेदस्य निश्चयप्रत्ययजन्मनश्चाभावात्। सर्वं हि साधनं विवादपदे वस्तुनि संशयविपर्यासावपनयन्तद्विषयनिश्चयप्रत्ययमुत्पादयद्विभत्ति नामानुरूपं न द्वयमप्येतत् कापिलमते सम्भवति। सदावस्थितस्य कार्यस्य हान्युपजननायोगात् । अथ
१ सांख्यकारिका।