________________
वादन्यायः
५६] सर्वात्मना निस्वभाव(वि)स्थायामिव किञ्जायते, साधनवैफल्यञ्च साध्यस्य कस्यचिदभावात् । यस्य कस्यचिदतिशयस्य तत्र कथश्चिदसत उत्पत्तौ सोतिशयस्तत्रासन कथं जायते, जातो वा सर्वः सर्वस्माज्जायतेति तुल्यः पर्यनुयोगः । नातिशयस्तत्र सर्वथा नास्ति कथञ्चित्सत एव भावादितिचेत् । यथा नास्ति स प्रकारस्तत्रासन कथं जायत । न च सर्वथा सतः कश्चिजन्मार्थ इत्युक्तं । असतोपि कार्यस्य कारणादुत्पादे यो यज्जननस्व
किञ्च साधनानां कारणानाम्बीजतेजोजलादीनां वैफल्यं प्रसज्येत साध्यस्य कर्तव्यस्य कस्यचिद्रूपस्याभावादिति प्रयोगः । यत्र साध्यन्न किञ्चिदप्यस्ति तत्र साधनसाफल्यं विद्यते यथा नभस्यनाधेयातिशये । न च साध्यङकिञ्चिदप्यस्ति कारणे व्यवस्थिते सति कार्य इति व्यापकानुपलब्धिः । न चायमसिद्धो हेतुरिति मन्तव्यं । यस्माद् यस्य कस्यचिदतिशयस्य तत्र कारणे स्थिते कार्ये कथञ्चिदुत्पत्ता विष्यमाणायां सोतिशयस्तत्रासन् कथञ्जायेत नैव जायेतासत्वात् । व्योमोत्पलमिव दुग्ध इति व्यापकानुपलब्धिरस्य चेतसि स्थिता। अथासन्नप्यतिशयो जायते। तदा जातौ वा तस्यासतोपि सोतिशयः सर्वस्माज्जायतेति तुल्यः पर्यनुयोग इति। भवतोपि घृतातिशयोपि तिलेभ्य उत्पद्येतासत्वात्। तेनाति - शयवदित्यर्थः। स्वभावहेतुप्रसङगः। परमतमाशङकते। नातिशयस्तो (62) त्यादिना । यथा नास्ति स कथन्तत्रासन प्रकारो जायतेति प्रक्षिपति । जातो वा सर्वः सर्वस्माज्जायतेति तुल्यः पर्यनुयोग इति पूर्वोक्तो दोषो न युज्यत इत्यभिप्रायः। सर्वप्रकारेणैव तहि निष्पन्नरूपातिशयोस्तीति चेदाह ।' न चेत्यादि (1) एवन्तावत्सदसत्कार्यवादिनोः सर्वस्मात्सर्वस्योत्पत्तिदोषस्तुल्य इति प्रतिपादितं । ___न च तयोरपि तुल्यञ्चोद्यन्न तदेको वक्तुमर्हति। सत्कार्यवादे च न कश्चिज्ज
न्मार्थ इति प्रसाधितं तेनायमस्तीत्यधिको दोषः। तदेवङकदाचित्परोऽभिदध्यान्ननु भो 40a यदि नाम मयैतन्न परिहृतं भवता त्ववस्य[? श्यं] स्थितेः किञ्चित् स्वपक्षस्य रक्षणाय'
वाच्यं । नहि परस्य पक्षं दूषयता स्वपक्षस्थितिरनवद्या लभ्यते। न भवति नित्यः शब्दो मूर्त्तत्वात् । सुखादिभिर्व्यभिचारेणेत्यादावनित्यत्वा' सिद्धवदित्यत आह । असतोपि कार्यस्य कारणादुत्पादे यो यज्जननस्वभावस्तत एव तस्य जन्म नान्यस्मादिति नियम (6 a 3) इति । अपि शब्दः सम्भावनायां । इदं अत्रार्थतत्वमविद्यमानमपि तैलं तिलेभ्य एवोत्पद्यते। तदुत्पादनशक्तियुक्तत्वात् तिलानां नान्यस्मात् तज्जननशक्तिविकलत्वात्तस्य। शक्तिप्रतिनियम एव च कथमिति च पर्यनुयोगे वस्तुस्वभावैरुत्तरं वाच्यं । य एवम्भवन्ति यथा वा तथैव प्रधाना