________________
१-निग्रहस्थानलक्षणम्
[५५ प्रसारिताः, अन्या मुष्टिः। तत्र मुष्टयादिशब्दा विशेषविषया,ऽङगुलीशब्दः सामान्यविषयो, बीजादरादिशब्दवत् व्रीह्यादिशब्दवच्च । तेनाङ्गुल्यः प्रसारिता न मुष्टिः (0) तद्यदि प्रागसदेव कारणे कार्य भवेत् किन्न सर्वः सर्वस्माद्भवति, नह्यसत्त्वे कश्चिद्विशेष इति । __ननु सर्वत्र सत्त्वप्ययं तुल्यो दोषो, नहि सत्त्वे कश्चिद्विशेषः, विशेषे वा सद्विशेषस्तैस्तुल्याभि नः स्यात्तदभावे विशेषस्यानन्वयात् । सतश्च 6a
मुष्टेरङगुलिविशेषादित्यत्रोक्तमपि प्रसङगात् युक्तमुक्तमित्यवसेयं । अन्यथा किमनेन यद्येवं कथन्तहि मुष्टिरङगुलीति च व्यपदेशभेद इत्यत आह। तत्र मुष्ट्यादिशब्दा विशिष्टविषया (5b9) विशिष्टावस्थानामेवाङगुलीनां वाचकत्वात् । अङगुलीशब्दस्तु सामान्यशब्दः सर्वावस्थानां तासामभिधायकत्वात्। यथाक्रम- 39a मुदाहरणद्वयमाह। वीजाङकुरादिशब्दवद् ब्रीह्यादिशब्दवच्चे (5b9)ति । एवं शकलीकृतसकलपरपक्षः कुचोद्यशेषं परोपन्यस्तं परिजिहीषुः । परमुखेन चोद्यमुपस्थापयति (1)तद्यदीत्या (5b9) दिना। इदमस्याकूतं यथा हि तिलेष्वविद्यमानं घृतं । तथा तैलमपि । तद्यदि प्रागसदेव कारणे कार्यमुत्पद्यते तथा घृतस्यापि तिलेभ्य उत्पत्तिः स्यात् । असत्वात् तैलवत् । न वा तैलस्यापि तत एव घृतवत् । नहि असत्ये कश्चिद् विशेष इति स्वभावहेतुव्यापकानुपलब्धित्वेनाभिमतयोाप्यव्यापकभावप्रसाधनप्रकार एषः। Hधाय।
तदेतत् सर्वं (म)भ्यवधाय कृत्योत्थापनम्भवत इति मन्यमानः प्राह । ननु सर्वत्र सर्वस्यासत्वेप्ययन्तुल्यो दोषः (5bro) । नहि सत्वे कश्चिद्विशेष इति प्रयोगो -गों [? प्रयोगः] पुनस्तावेव सत्वादिति हेतुविपर्ययं कृत्वा कार्यों । अथापि कश्चिद्विशेषोस्ति तेन सत्वेपि न सर्व सर्वस्मात् जायते तेन संदिग्धविपक्षव्यावृत्तिकत्वं प्रमाणयोरिति चेदाह । विशेषे चाऽभ्युपगम्यमाने सविशेषस्त्रैगुण्यात् सत्वरजस्तमोरूपाद् भिन्नः स्यात् । कस्मात्तस्य त्रैगुण्यस्य भावेपि विशेषस्याननुवृत्तेः कारणात् । प्रयोगः पुनः। यद्भावेपि' यन्नानुवर्तते तत्तस्मादत्यन्तं भिन्नं । यथा शब्दस्पर्शरूपरसगन्धेभ्यश्चैतन्यन्नानुवर्तते च विशेषस्त्रगुण्यभावेपीति स्वभावहेतुः । एतच्चाभ्युपगम्योद्ग्राहितं । अधुना सत्कार्यवादे जन्मार्थ एव न युक्त इत्याह । सतश्चे(5bro)त्यादि। नैव तस्य चासत्वेनाभिमतस्य जन्मास्ति। सत्वात्। निष्पन्नावस्थायामिवेति विरुद्धव्याप्तोपलब्धिरस्य मनसि वर्तते । अन्यथा 39b .. पुनर्जातस्यापि पुनर्जातिः प्रसज्यत इत्यनवस्था स्यात् । यदाह।
सतो यदि भवेज्जन्म जातस्यापि भवेद् भव (१३) इति ।