________________
वादन्यायः
५४] यत्र च हि खलु विवेकः स्वभावभूतः स एव वस्तुभेदलक्षणं सुखदुःखवत् । परभूते च विवेकोत्पादेऽङ्गुल्यः प्रसारिता एवोपलभ्येरन् । न हि स्वयं स्वभावादच्युतस्यान्तरोत्पादेऽन्यथोपलब्धिरिति प्रसङ्गात् ।
ननूक्तं द्रव्यमेव निविवेकम(म्,अ)वस्था नापि द्रव्यादर्थान्तरमिति । उक्तमिदं न पुनर्युक्तं, न हि सतो वस्तुनस्तत्त्वान्यत्त्वे मुक्तवान्यः प्रकारः सम्भवति । तयोर्वस्तुनि परस्परपरिहारस्थितलक्षणत्त्वेनैकत्यागस्यापरोपादा(न)नान्तरोयकत्त्वात् । अङ्गुलीषु पुनः प्रतिक्षणविनाशिनीष्वन्या एव
वात् । अप्रसारितावस्थायामिव स्वभावहेतुः। एवमप्रसारितावस्थायां प्रसारितावस्थायां तत्प्रति पत्तिः स्यादित्यपरो योज्यः। यत्तूभयस्येति व्यापकानुपलब्धिः योज्या। अथाऽपि कथञ्चित्कश्चिद्विवेको स्थितयोर (व)स्थयोस्तदा स विवेकश्चासामडगुलीनां स्वभावभूतो वा भवेन्नवेति विकल्पद्वयं (1) प्रथमे तावद् दोषमाह। य एव खलु विवेकः स्व भावभूतः। स एव स्वभेदलक्षणं सुखदुःखवदिति (5b6)। द्वितीयेप्याह। परभूते च विवेकोत्पादेऽङगुल्यः प्रसारिता एवोपलभ्येरन् (5b6) मुष्टयवस्थायामपीति शेषः (1) किमिति। यतो नहि स्वभावादप्रच्युतस्यार्थान्तरो
त्पादे सत्यन्यथोपलब्धिर्भवत्यतिप्रसङगात् । उष्ट्रस्याप्यर्थान्तरस्य कलभस्योत्पादे38b ऽन्यथोपलब्धिः स्यादित्यतिप्रसङगो वक्तव्यः। प्रयोगः पुनः। यत्रस्वस्यात्म
भावादप्रच्यतं न तस्यार्थान्तरोत्पादेपि अन्यथोपलब्धिः । यथोष्टस्य कलभप्रादुर्भावे । अप्रच्युताश्च स्व'स्मात्स्वभावादङगुल्यो विवेकोत्पादेपीति विधिप्रतिषेधाभ्यां हेत्ववकल्पनायां कारणविरुद्धकारणानपलब्धी। नन्वित्यादि परः । तत्वान्यत्वाभ्यामनिर्वचनीयं तदुक्तमिति वाक्यार्थः । उक्तमेतन पुनर्युक्तमित्याचार्यः । कथमयुक्तमित्याह । नहि सतो वस्तुनस्तत्त्वान्यत्वे मुक्त्वान्य (:) प्रकारः सम्भवती (5b7) ति सद्वस्तुग्रहणं कल्पनाशिल्पोपरिचतस्यान्यापोहादेः सम्भवतीति प्रतिपादनाय । कुत इत्याह । तयोरि(5b8)त्यादि। प्रयोगः पुनः। यौ परस्परपरिहारस्थितलक्षणौ तयोरेकत्यागोऽपरोपादाननान्तरीयकः। एकोपादानञ्चापरत्यागनान्तरीयकं तद्यथा भावाभावौ। यथोक्तधर्मवन्तौ च तत्वान्यत्वप्रकाराविति स्वभावहेतुः। नन्वङगुलीभ्यो मुष्टस्तत्वान्यत्वप्रकारौ मुक्त्त्वाप्यन्यः प्रकारः संभवत्येव । न ह्यङगुल्य एव मुष्टिः प्रसारितानाममुष्टित्वात् । नाप्य
र्थान्तरं पृथक्स्वभावानुपलब्धेरिति चेदाह । अङगुलीषु पुनरि(5b8) त्यादि। प्रतिक्षणं विनाशो विद्यते यासां इति विग्रहः। ता एव क्षणिकत्वात् तथाविधा जायन्ते येन मुष्टयादिवाच्या भवन्तीत्यर्थः ॥ तदेतच्च वस्तुतो न