________________
६४]
वादन्यायः
45b
तथा च कृतकः शब्द इत्येवमुभयथा यथेष्टं प्रयोग(:) क्रियते । साध्यसिद्धरुभयथापि भावात् । तत्र यदि कृतकः शब्दो यश्चैवं स सर्वोऽनित्यो यथा घटादिरित्यभिधाय तथा कृतकः शब्द इति प्रतिबिंबनार्थ मुपनयवचनमुच्यते । तदे[? दि]दमनर्थक विनाप्यनेन प्रतिविबनेनानन्तरोक्तप्रयोगमात्रात् प्रतीतिभावात् । साधनञ्च यदनर्थकं न तत्साधनवाक्ये विद्वद्भिरुपादेयं । तद्यथा दशदाडिमादि वाक्यं तथा चानर्थकं प्रतिबिंबनार्थमुपनयवचनमिति व्यापकविरुद्धोपलब्धः। स्वार्थानुमितावप्ययमेव न्यायो दृष्टो नहि कश्चित्सचेतनः कृतकत्त्वस्य भावं शब्दे गृहीत्वा तस्य चाविनाभावित्वमनुस्मृत्य तथा च कृतकः शब्द इति प्रतिबिम्बनार्थकरोति । अथापि यः कृतकः स सोऽनित्यो यथा घटः। तथा च कृतकः शब्द । इति सम्भवप्रदर्शनार्थमुपनयवचनमुच्यते। तदेतद् द्वयमप्यङगीकुर्मः। प्रतिज्ञानन्तरभाविनस्तु साधनमात्रनिर्देशमनित्यः शब्दः कृतकत्वादित्येव न प्रतिपद्यामहे । प्रतिज्ञायाः प्रयोगाभावात् । ततश्चोपनयस्यावयवान्तरत्वप्रतिपादनायोक्तो हेतुरसिद्धतोरगदष्टत्वाङगतावशक्त एव । यत् पुनरिदं सिद्धार्थनिर्देशलक्षणं निगमनं पौनरुक्त्यपरिहाराय वर्ण्यते तन्नैवोपपद्यते विना निगमनेनार्थसिद्धेरेव पञ्चावयवसाधनवादिनोऽनुपपत्तेः' अन्यथा निगमनात् प्रागेवार्थस्य सिद्धत्वात् व्यर्थतया न साधनाङगनिगमनम्प्राप्नोति। ततश्च नेदमुपादेयं साधनवाक्ये सिद्धमित्यप्रतिज्ञा। भवेद्वयामोहो विप्रतिपन्नस्य प्रमाणान्तरव्यपेक्षा नास्तीति सिद्धमनित्यत्व
मुच्यते। निगमनं तु प्रतिविषयस्यार्थस्याशेषप्रमाणोपपत्तावशेषावयवपरामर्शनाव46a धारणार्थम नित्य एवेति प्रवर्तत इति । यदि तहि प्रमाणान्तरव्यपेक्षा नास्ति तत्तहि
(साध्यं) सामर्थ्यादवधार्यत एव । तथाहि यदकृतकन्तदनित्यमेव । यथा कुण्डादिशब्दश्च कृतक' इत्येवमनि (त्य)त्वाविनाभाविनः कृतकत्वस्य शब्दे भावख्यातौ तत्सामर्थ्यादेवानित्यः शब्द इति निश्चयो भवति (1) तदस्य वचनं सामर्थ्य प्रतीतार्थप्रत्यायकत्वात् पुनरुक्तमनुपादानाहञ्च । न चात्र विपर्ययप्रसङगस्य लेशोप्याशङकयते । येन तद्वयवच्छेदाय सफलमेतस्योपादानं स्यात् । अनित्यत्वेनैव कृतकत्वस्य व्याप्तिप्रसाधनात् । प्रयोगस्तु (1) यत्सामर्थ्यात् प्रतीयते न तस्य वचनम्प्रेक्षावता कर्त्तव्यं । तद्वचनम्पुनरुक्तम्वा तद्यथा गेहे नास्ति कुमारो जीवति चेत्येतत्सामर्थ्यात् प्रतीयमानस्य तद्वहिर्भावस्य वचनं । पक्षधर्मान्वयव्यतिरेकतद्वचनसामर्थ्याच्च प्रतीयते तस्मादनित्य एवेत्येवमादिना पुनः सिसाधयिषितोर्थः प्रथमसाध्यापेक्षया व्यापकविरुद्धोपलब्धिद्वितीयसाध्यापेक्षया च स्वभावहेतुः। अत एव निगमनस्यावयवान्तरत्वप्रतिपादनायोक्ता हेतवोऽसिद्धाः। तदप्यतेनैव प्रत्युक्तं । यदाह ।
प्रत्ययेक्ष (?) प्रतिज्ञादीन्वाक्यार्थप्रतिपत्तये ।