________________
१-निग्रहस्थानलक्षणम्
[६५ अन्वयव्यतिरेकवचनयोर्वा साधर्म्यवति (वै)धर्म्यवति च साधनप्रयोगो [?ग] एकस्यैवाभिधानेन सिद्धर्भावात् द्वितीयस्या सामर्थ्य मिति तस्याप्यसाधनाङ्गस्याभिधानं निग्रहस्थानं व्यर्थाभिधानादेव ।
ननु च विषयोपदर्शनाय प्रतिज्ञावचनमसाधनाङ्गमप्युपादेयमेव । न (1) वैयर्थ्यादसत्यपि प्रतिज्ञावचने यथोक्तात्साधनवाक्याद्भवत्येवेष्टार्थसिद्धिरित्यपार्थकं तस्योपादानं (।) यदि च विषयोपदर्शनमन्तरेण प्रतीतेरुत्पत्तिः (1) कथन्न प्रतिज्ञासाधनादयः। न हि पक्षधांदिवचनस्यापि प्रतीतिहेतुभावादन्यः साधनार्थः स प्रतिज्ञावचनेपि तुल्य इति कथं न साधनं (1) केवलस्यासामर्थ्यादसाधनत्त्वमिति चेत् । तत्तुल्यं पक्ष धर्मवचनस्यापीति तदपि न साधनावयवः स्यात् । नहि पक्षधर्मवचनात् केवलात प्रतिपत्तरुत्पत्तिः । एतेन संशयोत्पत्तिः प्रत्युक्ता (0) पक्षधर्मवचनादपि केवलादप्रदर्शि'ते सम्बन्धे संशयोत्पत्तेः । तस्माद्वयर्थमेव साधनवाक्ये प्रतिज्ञावचनोपादानं वादिनो निग्रहस्थानं ॥ त् ॥
प्रोच्यमानन्निगमनं पुनरुक्तन्न जायते ॥ (१७) विप्रकीर्णैश्च वचनै कोर्थः प्रतिपाद्यते । तेन सम्बन्धसि ध्यर्थम्वाच्यन्निगमनं पृथग् (॥१८) इत्यलमतिप्रसारिण्या कथया ॥०॥
अन्वयव्यतिरेकयोति पर्यायान्तरकथनमुपादानमिति (न्या० सू० २।१।१२) वर्तते द्वितीयस्यासामर्थ्य जातायाः सिद्धेः पुनरजन्यत्वात् । (प्रमाण-) समुच्चय टीकाकारास्त्वाहुः नन्वि (6b4)त्यादि। ने(6b4)त्याद्युत्तरः। यदि चेत्युपचयहेतुः। साधनावयवः प्रतिज्ञां प्राप्नोति नियमेन साध्यप्रतीतिनि मित्तत्वात् 46b पक्षधर्मादिवचनवत्। सन्दिग्धव्यतिरेको हेतुरिति चेदाह । नहि पक्षधर्मवचनस्यापीति (6b6)। तत्तुल्यमिति विरुद्धानकान्तिकयोः पक्षधर्मसद्भावेप्यगमकत्वात् । तत एव संसयो [? संशयो]त्पत्तेः पक्षधर्मवचनन्न साधनं साधारणादिवचनवदिति चेदाह । ऐतेन (6b7) तत्तुल्यमित्यादिना संशयोत्पत्तिः प्रत्युक्तेति । एतदेव व्यनक्ति पक्षधर्म वचनादपीति। तदनेनानन्तरस्य हेतोर्व्यभिचारङकथयति ।
ननु च पक्षधर्मस्य श्रावणत्वादेरप्रदर्शिते सम्बन्धेनैव साधनावयवत्वमतो विपक्षत्वाभावान्न व्यभिचारः। प्रदर्शिते तु सम्बन्धे साधनावयवत्वं तदा च तस्मात् संशयो नास्तीति सुतरान्नानेकान्त इति ॥ एवं मन्यते। पक्षवचनेपि तुल्यमे (6b6)तदिति तदपि साधनं स्यात्। अथ प्रतिपद्येथा सत्यं स्याद्यदि साध्यं स्यान्न चास्त्यन्यतः