Book Title: Vadnyaya
Author(s): Shantrakshit Acharya
Publisher: Mahabodhi Sabha

View full book text
Previous | Next

Page 116
________________ २-न्यायमतखंडनम् [९९ समर्थने कर्तव्ये तदकृत्त्वा परस्य प्रसङ्गेनाप्रसङ्गेन वाऽजनान्तरी(य)कस्याभिधानमुत्तरवादिनोपि दोषो'द्भावनमात्रादपरस्योपक्षेप इति ॥ ___ वर्णक्रमनिर्देशवन्निरर्थकं (न्या०५।२।८)। “यथा नित्य (:) शब्दो जबगडत्वात् झभघढवदिति” “साधनान्युपादानान्निगृह्यत" इति (1) इदमप्यसम्बद्धं नहि वर्णक्रमनिर्देशसिद्धावानर्थक्यं यदेव किञ्चिदसाधनाङ्गस्य वचनं तदेवानर्थकं साध्यसिद्धयु पयोगिनोऽभिधेयस्याभावात् 13b निष्प्रयोजनत्वाच्चेति । प्रकारविशेषोपादानमसम्बद्धं। वरुपादानाददोष इति चेत् । स्यादेतद्वर्णक्रमनिर्देशवदिति वतिरत्रोपात्तः सोन्यदाप्य. ननुरूपं गृह्णातीत्यदोष इति नार्थान्तरादेनिग्रहस्थानस्यावचनप्रसङ्गात् । एवं हि ता निरर्थर [? निरर्थका] वाच्या निरर्थकेनैवाभिधानाहित [? तं]न साध्यसिद्धावनर्थकं निरर्थकं यस्य नैव कश्चिदर्थस्तनिरर्थकमिष्टमिति चेत् । यस्य कस्यचिदवादिनो पि हि निरर्थकाभिधाने किन्न निग्रहो निग्रहनिमित्ताविशेषात् । तस्येहाऽप्रस्तावादिति चेत् । आयातमिह यो निर योरेकस्यापि जयपराजयावित्युक्तं । प्रकृतं परित्यज्येति न्याय्यतामेवास्य प्रतिपादयति । प्रकृतमत्र साध्यसाधनहेत्वभिधानं तदकृत्वेति उपन्यस्ते दोर्षे न समर्थनं। अपरस्य(13a7)रूपसिध्यादेः। अतन्नान्तरीयकस्यापीति। उपन्यस्तसाधनसमर्थनाङगस्येत्यर्थः । अपरस्य नामादिव्याख्यानादेरुपक्षेपः पराजयस्थानमिति वर्तते ॥४॥ __ वर्णक्रमनिदेश(व)निरर्थकं (न्या० सू० २।११८) यत्र वर्णा एव केवलं क्रमेण निदिश्यन्ते। न पदन्नापि वाक्यं । अर्थान्तरे किलाप्र कृतार्थकथनमिह वर्णमात्रोच्चारणमिति शेषः॥ असम्वद्धतामेवाह । नहि वर्णक्रमनिर्देशादेव(13a9)केवलादानर्थक्यमपि तु यदेव किञ्चिदसाधनाङगस्यासिद्धविरुद्धादेः शब्दरूपसिध्यादेश्च वचनन्तदेवानर्थकं । किं कारणं । साध्यसिद्धयुपयोगिनोऽभिधेयस्याभावात् । साध्यसिद्धयुपयोगिनोभावे पि कस्यान्यत्प्रयोजनमस्तीत्यपि न मन्तव्यं इति कथयति । निष्प्रयोजनत्वाच्चेति। साध्यसिद्धेरेव प्रस्तुतत्वादन्यप्रयोजनवत्वेपि आनर्थक्यमेव तत्र प्रस्ताव इत्यभिप्रायः। तस्मात्प्रकारविशेषोपादानवर्णक्रमनिर्देशवदित्यसम्बद्धं । परः प्राह । न साध्यसिद्धौ यदनर्थकमनङगन्तन्निरर्थकमभिप्रेतमपि तु यस्य वचनस्य 63a काकवासितादेरिव नैव कश्चिदर्थः । तथा च नार्थान्तरापार्थकादीनामनेनैव संग्रहस्तत्र १"कीर्तिनाप्यनुमोदितं"--न्या० मं० पृ० ६४६ । १३

Loading...

Page Navigation
1 ... 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194