Book Title: Vadnyaya
Author(s): Shantrakshit Acharya
Publisher: Mahabodhi Sabha

View full book text
Previous | Next

Page 82
________________ १-निग्रहस्थानलक्षणम् [६५ अन्वयव्यतिरेकवचनयोर्वा साधर्म्यवति (वै)धर्म्यवति च साधनप्रयोगो [?ग] एकस्यैवाभिधानेन सिद्धर्भावात् द्वितीयस्या सामर्थ्य मिति तस्याप्यसाधनाङ्गस्याभिधानं निग्रहस्थानं व्यर्थाभिधानादेव । ननु च विषयोपदर्शनाय प्रतिज्ञावचनमसाधनाङ्गमप्युपादेयमेव । न (1) वैयर्थ्यादसत्यपि प्रतिज्ञावचने यथोक्तात्साधनवाक्याद्भवत्येवेष्टार्थसिद्धिरित्यपार्थकं तस्योपादानं (।) यदि च विषयोपदर्शनमन्तरेण प्रतीतेरुत्पत्तिः (1) कथन्न प्रतिज्ञासाधनादयः। न हि पक्षधांदिवचनस्यापि प्रतीतिहेतुभावादन्यः साधनार्थः स प्रतिज्ञावचनेपि तुल्य इति कथं न साधनं (1) केवलस्यासामर्थ्यादसाधनत्त्वमिति चेत् । तत्तुल्यं पक्ष धर्मवचनस्यापीति तदपि न साधनावयवः स्यात् । नहि पक्षधर्मवचनात् केवलात प्रतिपत्तरुत्पत्तिः । एतेन संशयोत्पत्तिः प्रत्युक्ता (0) पक्षधर्मवचनादपि केवलादप्रदर्शि'ते सम्बन्धे संशयोत्पत्तेः । तस्माद्वयर्थमेव साधनवाक्ये प्रतिज्ञावचनोपादानं वादिनो निग्रहस्थानं ॥ त् ॥ प्रोच्यमानन्निगमनं पुनरुक्तन्न जायते ॥ (१७) विप्रकीर्णैश्च वचनै कोर्थः प्रतिपाद्यते । तेन सम्बन्धसि ध्यर्थम्वाच्यन्निगमनं पृथग् (॥१८) इत्यलमतिप्रसारिण्या कथया ॥०॥ अन्वयव्यतिरेकयोति पर्यायान्तरकथनमुपादानमिति (न्या० सू० २।१।१२) वर्तते द्वितीयस्यासामर्थ्य जातायाः सिद्धेः पुनरजन्यत्वात् । (प्रमाण-) समुच्चय टीकाकारास्त्वाहुः नन्वि (6b4)त्यादि। ने(6b4)त्याद्युत्तरः। यदि चेत्युपचयहेतुः। साधनावयवः प्रतिज्ञां प्राप्नोति नियमेन साध्यप्रतीतिनि मित्तत्वात् 46b पक्षधर्मादिवचनवत्। सन्दिग्धव्यतिरेको हेतुरिति चेदाह । नहि पक्षधर्मवचनस्यापीति (6b6)। तत्तुल्यमिति विरुद्धानकान्तिकयोः पक्षधर्मसद्भावेप्यगमकत्वात् । तत एव संसयो [? संशयो]त्पत्तेः पक्षधर्मवचनन्न साधनं साधारणादिवचनवदिति चेदाह । ऐतेन (6b7) तत्तुल्यमित्यादिना संशयोत्पत्तिः प्रत्युक्तेति । एतदेव व्यनक्ति पक्षधर्म वचनादपीति। तदनेनानन्तरस्य हेतोर्व्यभिचारङकथयति । ननु च पक्षधर्मस्य श्रावणत्वादेरप्रदर्शिते सम्बन्धेनैव साधनावयवत्वमतो विपक्षत्वाभावान्न व्यभिचारः। प्रदर्शिते तु सम्बन्धे साधनावयवत्वं तदा च तस्मात् संशयो नास्तीति सुतरान्नानेकान्त इति ॥ एवं मन्यते। पक्षवचनेपि तुल्यमे (6b6)तदिति तदपि साधनं स्यात्। अथ प्रतिपद्येथा सत्यं स्याद्यदि साध्यं स्यान्न चास्त्यन्यतः

Loading...

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194