Book Title: Vadnyaya
Author(s): Shantrakshit Acharya
Publisher: Mahabodhi Sabha

View full book text
Previous | Next

Page 40
________________ १-निग्रहस्थानलक्षणम् [२३ वहारः । प्रत्यक्षविषये तु स्याल्लिङ्गजाया अपि कुतश्चित्सद्वयवहारः। असद्वथवहारस्तु तद्विपर्ययेऽ' नैकान्तिको, विप्रकृष्टेऽर्थे प्रतिपत्तृप्रत्यक्षस्यान्यस्य ती (2b4)त्यादि। यथोक्तप्रतिभाषा[? सा] बुद्धिः प्रतिपत्तृप्रत्यक्षप्रतिभासिरूपनिर्भासा यथोक्तः प्रतिभासो यस्या इति विग्रहः । उक्तञ्च यदनात्मेत्यादिना। तस्याः सकासा[? शा]त्सद्व्यवहारो भवति साक्षा (द्) वस्तुग्रहणात् । तस्या'ञ्च विपर्ययोऽभावस्तस्मिन् सत्यसद्व्यवहारो भवति। सत्स्वन्येषूपलम्भकारणेष्विति वाक्यपरिसमाप्तिः कार्याः[?] । अन्यथा संस[? श]योत्पत्तेः । नहि वस्तुसत्व उपलं भप्रत्ययान्तरसाकल्ये च सा निवर्तत इति निवेदितमेतत् पुरोऽस्मा- 17a भिरितिभावः । तदनेन यद्येवंविधा बुद्धिरभिमता त्वया तदावयोरैकमत्यमेव तथापि न नः किञ्चिदनिष्टमुक्तं स्यात । अथान्या[? न्यः] तदा व्यभिचार इति दर्शयति। तमेव व्यभिचारन्दर्शयन्नाह। प्रत्यक्षाविषये (2b4)त्यादिना। लिङगाज्जाता लिङगजाः। अनुमानमित्यर्थः । तस्याः सकासा[? शात्सद्व्यवहारः स्यात्परो क्षेऽर्थेन केवलमनन्तरोदितरूपायाः स्वग्राहय इत्यपिनाह । कि लिङगजायाः सर्वस्याः सम्भवति नेत्याह। कुतश्चिदि (2b4)ति (1) स्वभावकार्यलिङगद्वयबलोपजाता या इत्यर्थः । अनुपलम्भस्यासत्ताऽसद्व्यवहारसाधकत्वादिति भावः । यदि नामे[? मै]वं ततः कथम्व्यभिचार इति चेदाह । असद्व्यवहारस्त्वि (2b4)त्यादि । तद्विपर्य इति तस्या यथोक्तलिङगजाया बुद्धेविनिवृत्तावनैकान्तिकः सन्दिग्ध इत्यर्थः। किं कारणं विप्रकृष्टेर्थे देशादिविप्रकर्षेः प्रतिपत्तप्रत्यक्षस्य प्रमाणस्य निवृत्तावपि संशयात्कारणात् । अर्थाभाव इति शेषः (1) प्रतिपत्तुः प्रत्यक्षमिति षष्ठीसमासः। इदञ्च प्रही णसकलज्ञेयावरणस्य प्रत्यक्षनिवृत्तौ त्वसंदेह एवेति कथनायोपात्तं । अन्यस्य चेत्यनुमानस्यागमस्य च । एतच्चागमस्य प्रामाण्यमभ्युपगम्याभिधीयते। न तु तस्य प्रामाण्यमस्ति (1) नान्तरीयकताभावाच्छब्दानाम्वस्तुभिः सह (1) नार्थसिद्धिस्ततस्ते हि वक्त्रभिप्रायसूचका (:॥४) इत्यादिवचनात्। अयमस्याभिप्रायो यदि नाम प्रमाणत्रयन्निवृत्तमप्रत्यक्षवस्तुनि तथापि तन्नास्तीति कुतोयन्निश्चयः। तथाहि मलयनगनिकुञ्जवत्तिदूर्वाप्रवालपत्रप्रभृतयः प्रमाणत्रयगोचरभावातिक्रान्तां मूर्तिमुद्वहन्तस्तिष्ठन्ति । न च ते न 17b

Loading...

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194