________________
१-निग्रहस्थानलक्षणम्
[२३
वहारः । प्रत्यक्षविषये तु स्याल्लिङ्गजाया अपि कुतश्चित्सद्वयवहारः। असद्वथवहारस्तु तद्विपर्ययेऽ' नैकान्तिको, विप्रकृष्टेऽर्थे प्रतिपत्तृप्रत्यक्षस्यान्यस्य
ती (2b4)त्यादि। यथोक्तप्रतिभाषा[? सा] बुद्धिः प्रतिपत्तृप्रत्यक्षप्रतिभासिरूपनिर्भासा यथोक्तः प्रतिभासो यस्या इति विग्रहः । उक्तञ्च यदनात्मेत्यादिना। तस्याः सकासा[? शा]त्सद्व्यवहारो भवति साक्षा (द्) वस्तुग्रहणात् । तस्या'ञ्च विपर्ययोऽभावस्तस्मिन् सत्यसद्व्यवहारो भवति। सत्स्वन्येषूपलम्भकारणेष्विति वाक्यपरिसमाप्तिः कार्याः[?] । अन्यथा संस[? श]योत्पत्तेः । नहि वस्तुसत्व उपलं भप्रत्ययान्तरसाकल्ये च सा निवर्तत इति निवेदितमेतत् पुरोऽस्मा- 17a भिरितिभावः । तदनेन यद्येवंविधा बुद्धिरभिमता त्वया तदावयोरैकमत्यमेव तथापि न नः किञ्चिदनिष्टमुक्तं स्यात । अथान्या[? न्यः] तदा व्यभिचार इति दर्शयति। तमेव व्यभिचारन्दर्शयन्नाह। प्रत्यक्षाविषये (2b4)त्यादिना। लिङगाज्जाता लिङगजाः। अनुमानमित्यर्थः । तस्याः सकासा[? शात्सद्व्यवहारः स्यात्परो क्षेऽर्थेन केवलमनन्तरोदितरूपायाः स्वग्राहय इत्यपिनाह । कि लिङगजायाः सर्वस्याः सम्भवति नेत्याह। कुतश्चिदि (2b4)ति (1) स्वभावकार्यलिङगद्वयबलोपजाता या इत्यर्थः । अनुपलम्भस्यासत्ताऽसद्व्यवहारसाधकत्वादिति भावः । यदि नामे[? मै]वं ततः कथम्व्यभिचार इति चेदाह । असद्व्यवहारस्त्वि (2b4)त्यादि । तद्विपर्य इति तस्या यथोक्तलिङगजाया बुद्धेविनिवृत्तावनैकान्तिकः सन्दिग्ध इत्यर्थः। किं कारणं विप्रकृष्टेर्थे देशादिविप्रकर्षेः प्रतिपत्तप्रत्यक्षस्य प्रमाणस्य निवृत्तावपि संशयात्कारणात् । अर्थाभाव इति शेषः (1) प्रतिपत्तुः प्रत्यक्षमिति षष्ठीसमासः। इदञ्च प्रही णसकलज्ञेयावरणस्य प्रत्यक्षनिवृत्तौ त्वसंदेह एवेति कथनायोपात्तं । अन्यस्य चेत्यनुमानस्यागमस्य च । एतच्चागमस्य प्रामाण्यमभ्युपगम्याभिधीयते। न तु तस्य प्रामाण्यमस्ति (1)
नान्तरीयकताभावाच्छब्दानाम्वस्तुभिः सह (1) नार्थसिद्धिस्ततस्ते हि वक्त्रभिप्रायसूचका (:॥४) इत्यादिवचनात्।
अयमस्याभिप्रायो यदि नाम प्रमाणत्रयन्निवृत्तमप्रत्यक्षवस्तुनि तथापि तन्नास्तीति कुतोयन्निश्चयः। तथाहि मलयनगनिकुञ्जवत्तिदूर्वाप्रवालपत्रप्रभृतयः प्रमाणत्रयगोचरभावातिक्रान्तां मूर्तिमुद्वहन्तस्तिष्ठन्ति । न च ते न 17b