________________
वादन्यायः
२४] वाप्रमाणस्य निवृत्तावपि संशयात् । न च सर्वे बुद्धिव्यपदेशास्तद्भेदाभेदौ वा वस्तुसत्ता वस्तुभेदाभेदाभेद(?)सत्तां वा साधयन्ति । असत्स्वपि कथञ्चिद
सन्तीति शक्यमभिधातुं। प्रमाणभावस्य सकलविषयसत्वव्यापकत्वकारणत्वाभावात् । न च तद्रूपविकलपदार्थनि'वृत्तावन्यनिवृत्तिनियमेनातिप्रसङगदोषोपनिपातादित्यावेदितमेतः [? तत्] पुरस्तात्। यदाह ।
शास्त्राधिकारासम्बद्धा बहवोऽर्थाकृतेन्द्रियाः । अलिङगाश्च कथन्तेषामभावोऽनुपलम्भता (॥५) इति ।
ननु चात्र लिङगजाया मतेरसद्व्यवहारहेतुत्त्वं निषेधुमारब्धन्तद्विपर्याय इत्याद्यभिधानात् । तत्कस्मादप्रस्तुतस्यैव प्रत्यक्षस्य चागमस्य चोपक्षेपः कृत इतिचेत्। युक्तमेतत्। सर्वप्रमाणनिवृत्तेस्त्वगमकत्वप्रदर्शनेनैतदेकान्तासम्भवदर्शनायोक्तमिति लक्ष्यतेऽस्य सुधियोऽ भिसन्धिः।
नन्विदमुक्तं सद्व्यवहारासद्व्यवहारयोरन्योन्यव्यवच्छेदस्थितलक्षणत्वे नैकाभावस्यापरभावनान्तरीयकत्वात् विप्रकृष्ट तन्निमित्ता भावात् सद्व्यवहारनिवृत्याऽसद्व्यवहार इति (1) सत्यमुक्तमेवैतन्न पुनर्युक्तं । तथाहि परोक्षेऽर्थे सद्व्यवहारनिवृत्तिः कथन्तन्निमित्ताभावेपि द्वयोरप्यनयोरनुपलब्ध्योः स्वविपर्ययहेत्वभावभावाभ्यां सद्व्यवहारप्रतिषेधफलत्वन्तुल्यमेकत्र संशयादपरत्र विपर्ययादिति वचनात् संशयेनेति चेत् ।' यद्येवं कथन्तर्यसद्व्यवहारनिश्चयस्तत्र युक्तिमनुपतति। यत्र तु निश्चयेन सद्व्यवहारनिवृत्तिस्तत्रासद्व्यवहारोपि युक्त एवान्यः प्रवर्तनफलोसीत्युक्तेः न चाभावरूपव्यवच्छेद भावानुषङगोस्ति
नियमेन । नहि बन्ध्यातनयनभःपङकजादिष्वसदवस्थता भवति प्रतिषेधात् 18a सदवस्थता भवति प्रतिषेधमात्रन्तु स्यात् । तयो रन्योन्यव्यवच्छेदेनावस्थानात् ।
तथात्राप्यप्रत्यक्षे सद्व्यवहारप्रतिषेधान्न विधिभूता सद्व्यवहारानुस[?ष]ङगस्तद्व्यवच्छेदमात्रन्तु स्यात् । तद्भावस्य तद्भावस्यान्योन्यपरिहारेण' अवस्थितत्वात्। उक्तञ्चैतदमलन्यायतत्वप्रबोधोद्गतप्रज्ञालोकतिरस्कृताशेषपरतीर्थ्य प्रवादध्वान्तेन धर्मकीतिनैवानित्यनिरात्मतादिव्यवच्छेदेपि तच्च स्यादित्यादिनेत्यास्तान्तावत्। __ अधुना सामान्यभूतानां बुद्धिव्यपदेशानां सद्व्यवहारहेतुत्वमपि नास्तीति कथयन्नाह । न चे(2b5)त्यादि। तत्र च यथाक्रममभिसम्बन्धः । ते सर्वे बुद्धिव्यपदेशा न वस्तुसत्तां साधयन्ति । तेषाम्वा भेदाभेदौ न वस्तुभेदाभेदयोः सत्ता