________________
१-निग्रहस्थानलक्षणम्
[२५ तीतानागतादिषु नानैकार्थक्रियाकारिषु वार्थेषु तद्भावस्थापनाय नानैकात्मता ऽभाषेपि नानैकरूपाणां वृत्तेः । राजा महासम्मतः प्रभवो राजवंशस्य । शंखश्चक्रवर्ती महासम्मतनिम्मितस्य यूपस्योत्थापयिता। शशविषाणं कथं सनिदर्शनं सप्रतिघं घटश्चेति । न हि सनिदर्शनादिशब्दा नानावस्तुविषया ए' कत्रोपसंहारात् । नानाविषयत्वेप्येकत्रोपसंहारस्तन्निमित्ता
सद्भावमिति । सर्वग्रहणं केचित्तु साधयन्त्येवेति प्रदर्शनाय। कुत एतदित्याह। अस त्स्वप्यतीतानागतादिषु (2b5) वृत्तेरिति क्रियापदं । आदिशब्देन व्योमोत्पलादयः परिगृहयन्ते। कथम्पुनर्विषयमन्तरेण तेषु तेषां वृत्तियुक्तेति चेदाह । कथं चित्त (2b6)द्रूपोनुभवाहितवासनापरिपाकप्रभावादित्यर्थः । तेषाञ्च । वस्तुप्रतिबन्धाभावादिति भावः। शङखचक्रवर्ती (2b7)त्यादिना प्रकारेण तदनेन वस्तुसत्तां साधयन्तीत्येतस्य कारणमाह। नानैकामर्थक्रिया (2b6) डकर्तुं सी[? शी]लं येषां ते तथोक्ताः। तेष्वपि च वृत्तेः कारणात् । किमर्थं तेषु तेषाम्वृत्तिस्तद्भावख्यापनाय । तेषान्नाऽनैकार्थक्रियाकारिणाम्भावस्तस्य ख्यापनाय। नानार्थक्रियाकारित्वस्यैकार्थक्रियाकारित्वस्य च कथनार्थमिति यावत्। अस्त्येव तहि तस्य वस्तुनस्तत्वमित्यत आह (1) नानकात्मताया (2b6) अभावेपि तस्य वस्तुन इत्यधा[?ध्या हर्तव्यं । नानकरूपाणाम्बुद्धिव्यपदेशानां तदनेन न वस्तुभेदाभेदौ साधयन्तीति साधयति । इदमेव निदर्शन प्रदर्शनेन सफली- 18b करोति। राजा महासम्मत (2b6) इदमतीतवृत्तेरुदाहरणं । यथेति चाध्याहार्य । शङ्खचक्रवर्तीत्याद्यनुत्पन्नवृत्तेः शब्दविषाणमित्यादि यदोपात्तस्य रूपं सनिदर्शनञ्चक्षुर्विज्ञानजनकत्वात्। सप्रतिघश्च स्वदेशे परोत्पत्तिप्रतिबन्धात्। एतन्नानार्थक्रियाकारिषु वृत्तेरित्येतस्य निदर्शनं । यस्मात्तच्चक्षुर्विज्ञानादि कार्यजनकत्वादेकरूपमपि नानारूपैः सनिदर्शनादि शब्दविषयीक्रियते। तस्मान्न ते वस्तुभेदसाधनायालं । घटश्चेत्येतदेकार्थक्रियाकारिष्वित्येतस्योदा हरणन्तथाहि बहवो रूपगन्धरसस्पर्शा उदकधारणविशेषादिकार्यनिर्वर्तनसमर्थत्वादभिन्नसमस्तै (:) विषयत्वेनात्मसात्क्रियन्ते । ततस्ते नाभेदं साधयितुं क्षमाः। तच्च (1) तीतानागतशशविषाणादिषु तत्प्रतिपत्तिर्न वस्तु साधयतीत्यतिप्रतीतमेतत् । अथ कथमिदङगम्यते सनिदर्शनादिबुद्धिशब्दा' न वस्तुभेदं साधयन्तीत्यतः प्राह। नहीत्या (2b7) दि। कस्मादेवात्र वस्तुनि रूपादावुपसंहारात्सनिदर्शनं सप्रतिघं रूपमित्येव समानाधिकरणत्वादिति यावत् । अन्यथा भिन्नाधिकरणत्वाद्वकुलोत्पलकमलमालतीमल्लिकादिशब्दानामेव सामानाधिकरण्यमेव न