________________
२६]
वादन्यायः नान्तत्तत्समवायादिति चेत् । आयासे वतायं तपस्वी पदार्थे पतितोऽनेकसम्बन्धिनमुपहृत्यानेकं शब्दमात्मनि तेभ्यः समाशंसन् । स यैः शक्तिभेदैरनेकं सम्बन्धिनमुपकरोति तैरेवानेक शब्दं किं नोत्थापयति । एवं ह्यनेन परम्परानुसारपरिश्रमः परिहृतो भवति ।
नानाशब्दोत्थापनासामर्थ्य नानासम्बन्ध्युपकारोपि मा भूत् ।
भवेदिति भावः । कणभक्षाक्षपादमतानुसारिण'स्तु मिथ्यादर्शनानुरागजनितासद्विकल्पमलोपलिप्तान्तर्लोचनाः सञ्चक्षते (1) नानाविषयत्वेप्यभ्युपगम्यमाने तेषामेकत्रोपसंहारोऽविरुद्ध एव । तन्निमित्तानां सनिदर्शनादीनान्तत्र रूपादौ समवायादिति।
तदेतत्सर्वमेषामविचारितरमणीयतया विचारविमर्दीक्षमत्वात् पण्डितजन19a हासकारि दर्शनमित्यभिप्रायवा चाह । आयासे वतायमित्या (2b8)दि (1)
वतशब्दोऽनुकंपायाङ कासावित्याह । अनेकं सम्बन्धिनं सनिदर्शनत्वादिकमुपकृत्यानुपकारे तेन तेषान्तत्र सम्बन्धित्वायोगादित्यभि'प्रायः । अनेकं सनिदर्शनादिशब्दं (2b9) तेभ्यः सम्बन्धिभ्यः शकासा [? सकाशादात्मनि संमार्गयग्निदमायासपतने कारणं।
नन सरूपादिभावो यः शक्तिभेदैरनेकसम्बन्धिन मपकरोति । तैरेव शक्तिभेदैरनेकं बुद्धयादिशब्दं किन्नोत्थापयति । यदि पुनरेवं भवेत्तदाको गुणो लभ्यत इत्याह । एवं ह्यनेन परम्परानुसारश्रमः परिह तो भवती (2b9)ति । शक्तिभेदैः सम्बन्धिनमुपकरोति तेभ्यश्च शब्दाः प्रवर्तन्त इत्ययम्परम्परानुसरणायासोऽनेन तपश्विना [? तपस्विना] रूपादिना त्यक्तो भवतीत्यर्थः।
ननु च प्रतिनियतोपि कार्यशक्तिमन्तः सर्व्व एव भावास्त्वयाप्येतदवस्य [? श्य] मेवाभ्युपेयमन्यथा कस्माच्छालिबीजं सा[?शा]ल्यङकुरमेवोत्पादयति न यवाङकुरमिति परेणाभियुक्तेन किमभिधानीयं भावप्रकृति मुक्त्वा (1) तस्मात्तव पदार्थप्रकृतिसमाश्रयणमेव शरणमन्यथास्य दोषस्य परिहर्तुमशक्यत्वात् (1) एतच्च न ममापि राजकुलनिवारितं। तथाहि शक्यमे (त)त्मयाप्यभिधातुमनेकसम्बन्ध्युपकार एव तस्य सामर्थ्य नानकशब्दोत्थापनमिति चेत् । सत्यमेवमेतत् । एवन्तु मन्यते । न तावत् सनिदर्शनत्वादयः सन्ति । क्रमयोगपद्याभ्यामर्थक्रिया त्वनुप्रयोगात् । उपलब्धिलक्षणप्राप्तानाञ्चानुपलम्भात् न चोपलब्धिलक्षणप्राप्तं सदनुपलभ्यमानमस्तीति शक्यते वक्तुमतिप्रसङगात्। अनुपलब्धिलक्षणप्राप्ततायां