________________
२२]
वादन्यायः
स्याभावात् । सर्वसामर्थ्यविवेको निमित्तमिति चेत् । एवमेतत्तस्यैव सर्वसामर्थ्यविवेकिन एवं प्रतीतिरन्यस्य तत्प्रतिपत्त्युपायस्याभावात् । तत्प्रतिपत्तौ च सत्त्यामसद्वयवहार इतीदं तन्नि(मि )त्तमुच्यते ।
बुद्धिव्यपदेशार्थक्रियाभ्यः सद्वयवहारो विपर्यये चा (s)सद्वयवहार इति चेत् । भवति बुद्धेर्यथोक्तप्रतिभासायाः सद्वयवहारो विपर्ययेऽसद्वय
व्यवहारस्यानन्यनिमित्ततामाह । एतदेव कुत इत्याह । अन्यस्ये (2b2) त्यादि। यथोक्तानुपलब्धिमपास्यान्यस्य नास्तित्वव्यवहारनिमित्तस्याभावादिति सम[? मु] . च्चयार्थः ।
ननु च यस्य यत्र न किञ्चित्सामर्थ्यमस्ति तदसद्व्यवहारविषयो यथा नभस्तले कमलं । तथाभिमतेपि देशादावभिमतस्य भावस्य न किञ्चित्सामर्थ्यमस्तीति सर्वसामर्थ्यविवेक एव नास्तित्वव्यवहारस्य निमित्तं भविष्यति। एतत्किमसंबद्धमेवोद्घाटितशिरोभिरभिधीयते । अन्यस्य तन्निमित्तस्याभावादिति कदाचित् कश्चित बयादिति तन्मतमाशंकते। सर्वसामर्थ्यविवेको निमित्तमिति (2b2)चेदि ति। अत्र समाधिमाह। एवमि (2b2)त्यादिना । एवं मन्यते सक्तमेतत सर्वसामर्थ्यविवेको निमित्तमिति किन्तु स एव सर्वसामर्थ्य विवेकोयं पदार्थः कथमवगतो यथोक्तामनपलब्धिमपास्य येन सर्वसामर्थ्यवि वेकोऽस्यासव्यवहारस्य
निमित्तम्भविष्यति। न चासावज्ञात एव तस्य निमित्तम्भवितमहति । ज्ञापकहेत्व16b
धिकारात् । कस्मात्सर्वसामर्थ्यविवेकिनो यथोक्तानु पलम्भेने न?]व प्रतीतिरित्याह । अन्यस्य तत्प्रतिपत्युपायस्याभावा (2b3)दिति । यदा तु यथोक्तानुपलब्ध्या तस्य सर्वसामर्थ्यविवेकिनः प्रतीतिर्भवति । तदा तत्प्रतिपत्तौ' सत्यामसद्व्यवहारो भवति। इति तस्मादिदं यथोक्तानुपलम्भनं तस्यासद्व्यवहारस्यानिमित्तमुच्यते।
पुनरपि परोन्यस्य तन्निमित्तस्याभावादित्यस्य कदाचि दयुक्तताम्ब्यादित्याशडकते बुद्धिव्यपदेश (2b3) इत्यादिना। अयमस्याभिसन्धिर्बुद्धिव्यपदेशार्थक्रियाभ्यः सकासा[? शात्तद्व्यवहारो भवति । तथा हि ताः प्रवर्त्तमाना' वस्तुसत्तां साधयन्ति । तद्भेदाभेदौ च वस्तुभेदाभेदावित्याशयः । ताश्च निवर्तमानाः स्वनिमित्तं सद्व्यवहारं निवर्तयन्त्यग्निरिव धूमं । तन्निवृत्तौ' चासद्व्यवहारः । सद्व्यवहारासद्व्यवहारयोरन्योन्यव्यवच्छेदस्थितरूपत्वेन एकत्यागस्यापरोपादानेनान्तरीयकत्वात् । ततश्च बुद्धयादिनिवृत्तौ चासद्व्यवहारनिमित्तमिति नेदं युक्तं वक्तुमन्यस्येत्यादि। अत्रापि प्रतिविधानमाह। भव