________________
१-निग्रहस्थानलणम् इष्टस्यार्थ(स्य)सिद्धिः साधनं, तस्य निर्वर्त्तकमङ्गं, तस्या(s)वचनं तस्याङ्गस्यानुच्चारणं वादिनो निग्रहाधिकरणं । तदभ्युपगम्याप्रतिभया तूष्णीं भावात् । साधनाङ्गस्यासमर्थनाद्वा । त्रिविधमेव हि लिङ्गमप्रत्यक्षस्य
एवमभिधाय प्रयोजनं सकलप्रकरणार्थसंग्राहकं श्लोकमाह असाधनाङवचन (1b1)मित्यादिना। असाधनाङगवचनमदोषोद्भावनञ्च द्वयोर्वादिप्रतिवादि नोर्यथाक्रमं निग्रहस्थानं पराजयाधिकरणं । अन्यत्त्वित्येतद्धयव्यतिरिक्तमक्षपादपरिकल्पितं प्रतिज्ञासंन्यासादिकं वक्ष्यमाणं निग्रहस्थानं न युक्तमिति कृत्वा नेष्यते (1) निग्रहस्थानमिति वर्त्तते । अयं तावत् समासेन इलोकार्थः । इष्टस्ये (Ibr)त्यादिना विभागमारभते । इष्टोऽर्थोऽनित्यः शब्द इत्यादि साध्यत्त्वेनेप्सितः । तस्य सिद्धिः प्रतिपत्तिः साधनं । तदनेन भावस्य साधनोयं साधनशब्दस्तावदस्मिन्व्याख्यानेऽभिप्रेतो न तु करणसाधन इति दर्शयति ॥ तस्य साधनस्येष्टार्थसिद्धिलक्षणमस्याङग किन्तदित्याह । निवर्तकं जनकं । अने'नाङगशब्दं व्याचष्टे । कारणपर्यायोयमत्राङगशब्दो नावयवपर्याय इत्यर्थः । तच्च साधनाङगमिह निश्चितरूप्यं लिङगमुच्यते। अस्य साधनाङगस्य वचनं त्रिरूपलिङगा ख्यानं । तस्य साधनाङगस्यावचनमनुच्चारणम (1b2) नभिधानं यत्तदसाधनाङगवचनं । अनेनैतत्कथयति असाधनाङगस्य पक्षोपनयनादेवचनमसाधनाङगवचनमिति मै व प्रतिपत्तव्यमस्मिन्व्याल्याने। किन्तु साधनाङग- 3a स्यैवावचनमसाधनाङगवचन मिति । तदसाधनाङगवचनं वादिनो निग्रहस्थानं । तदेतेन श्लोकस्य पूर्वभागम्विवृणोति । कथम्पुनः साधनाङगस्यानुच्चारणम्भवति निग्रहस्थानं चेत्याह । तदभ्युपगम्येति (1b2) तदितीष्टं साध्यमभ्युपगम्याहमेतत्साधयामीति प्रतिज्ञयाप्रतिभया करण भूतया तूष्णीम्भावात् । अप्रतिभात्र पूर्वाषिगतार्थविस्मरणं स्तम्भितत्त्वञ्च गृह्यते। ___ अनेन सर्वथा साधनाङगस्पावचनमाह अभिधाने वा यदि न समथितं तदोक्तमप्यऽनूक्तमेव स्वकार्याकरणात् । इत्यभिप्रायवानाह (-) साधनाङगस्यासमर्थनाद्वेति (1b2) । तदभ्युपगम्येतिवर्तते । वा शब्दः पुर्वापेक्षया विकल्पार्थः । साधनाङगस्यासमर्थनं त्रिष्वपि रूपेषु निश्चयाप्रदर्शनं । तस्मात्तूष्णीम्भावादसमर्थनाच्च साधनाङगस्यानुच्चारणं । ततश्च प्रतिज्ञातार्याकारणात् वादिनो निग्रहाधिकरणमिति (1b2) प्रकृतेन सम्बन्धः। क्वचित्तु वादिन इति पाठः । तत्र तच्छब्देन प्रकृतमनुच्चारणं संबध्यते।।
कथम्पुनः साधनाङगासमर्थनम्भ 'वति । येन तद्विपर्ययेनासमर्थनात्प्रतिज्ञाताकारणाद्वादिनो निग्रहाधिकरणत्त्वमिति कदाचित्कश्चिद् ब्रूयादित्येतत्परिजिहीर्षुराविप्रस्थानमारचयति ' त्रिविधमेवे (1b2)त्यादिना त्रिप्रकारमेव लिङग