________________
वादन्यायः
मडगडकरणं कस्यासिद्धः प्रतिपत्तिरूपायाः । कस्य सिद्धरित्याह। अप्रत्यक्षस्यापरोक्षस्यानुमेयभूतस्य वस्तुन इति यावत् । अवधारणञ्चतुरादि
व्यवच्छेदमाचष्टे । त्रिविधमेवेति नियमः कथमयमिति चेत् । यस्माद्विधि 3b प्रतिषेधरूपतया द्विधा साध्यं व्यवस्थितं । विधिरूपञ्च सद्भावरूपङकारणरू
पम्वा भवद् भवेत् । नान्यत् । तत्र हेतोः प्रतिबन्धायोगात् । नयर्थान्तरस्याका
र्यस्य सद्भावेऽपरस्य सद्भावो युक्तः। पटसद्भाव इवोष्ट्रस्य। नाप्यथीं। - तरस्याकारणस्य निवृत्तावकार्यस्यान्यस्य च निवृत्तियुक्तिमती । उष्ट्र निवृत्ताविव पटस्य । न चान्वयव्यतिरेकविकलस्यागमकत्त्वं युक्तं । पटस्याप्युष्ट्रगमकत्त्व -- प्रसङ्गात् । स्वभावभूतधर्मसद्भावे तु स्वभावभूतस्यान्यस्य सद्भावो युक्तो नहि स्वभावः स्वम्भावम्परित्यज्य वर्तते । तत्स्वभावत्त्वाभावप्रसङगात् । तनिवृत्तौच निवृत्तिः॥ कार्यस्यापि भावे कारणस्य भावो युक्तः। तनिवृत्तौ च निवत्तिरन्यथा तेन विनापि भावात्कार्यमेव तत्तस्य न स्यात्तदन्यवत । तस्मात्स्वभाव कारणभूतसाध्यभेदात् । द्विधैव विधिरूपं साध्यं तत्रैव हेतोः प्रतिबन्धात् । स्वभावभूतञ्च साध्यं स्वभावहेतुः साधयति । कारणभूतञ्च कार्यहेतु रित्यभ्युपेयं । प्रतिषेधमप्युपलब्धिलक्षणप्राप्तानुपलब्धिरेव साधयति । नान्या यथा तथा विस्तरेण प्रतिपादयिष्यति । तदिदमिह संक्षिप्तमर्थतत्त्वं विषयव्यपेक्षया विषयिणो लिंगस्य व्यवस्था। विषयश्च विधिः प्रतिषेधो वा भवेत् । विधावप्यर्थान्तरम्वा विधीये तानन्तरं वा अर्थान्तरविधावपि का'र्यकारणमनुभयम्बा साध्यते । कार्यप्रतिपादनेपि कारणसामान्यम्वाऽमेघादिव्यावृत्तं वस्तुमात्र लिङगत्वेनोच्यते । कारणविशेषो वा योऽप्रतिबद्धसामर्थ्य में घादिः । प्रतिषेधोपि निषेध्याभिमतस्यानुपलम्भेनोपलम्भेन
वा प्रतिपाद्येत । अनुपलम्भेपि उपलम्भनिवृत्तिमात्रलक्षणो वा भवेत् । 4a तत्तुल्ययोगावस्थ(:) केवला परपदार्थोपलम्भरूपो वेति विकल्पाः । तत्र
नावश्यं गम्भीरध्वानादियुक्तमपि मेघादिकारणमात्रं वृष्टयादिकार्याविर्भावकमन्तरा प्रतिबन्धसम्भवेन व्यभिचारात् । अतो न कारणमात्रं गमकं। कारणविशेषादप्यप्रतिहतशक्तेरनन्तरं सम्बन्धस्मृतिव्यवहितादनुमेयविज्ञानात्प्राक् कार्यमेवोद्भूतमक्षज्ञानग्राह्यं भवतीति न तस्यापि लिङगत्वं। कार्यन्तु कारणलिङगं युक्तं। तदविनाभावात्। तवतिक्रमे वा हेतुमत्ताम्विलंघयेत्। अनुभयमप्यसम्बन्धानुगमकमतिप्रसङगों वा। अनर्थान्तरमप्यव्यभिचाराङगम्यत इति युक्तिमत्। निषेधोप्युपलम्भेन न युज्यते विरोधात् । कथं हि नामोपलभ्यते च नास्ति
Mitiliniin