________________ १-निग्रहस्थानलक्षणम् [5 सिद्धरङ्ग (-) स्वभावः कार्यमनुपलम्भश्च / तस्य समर्थनं साध्येन चेत्युपपद्यते। तज्ज्ञान निवृत्तिमात्रमपि व्यभिचारि। एकज्ञानसंसर्गिणस्तु कैवल्यदृष्टेरसत्ताव्यवहारो युक्तो यदि हि स्यादुपलभ्य सत्त्व एव भवेत् / प्रमाणञ्च यदनुपपद्य मानविषयं न तद्विषयि युक्तं। यथा वाजिविषाणं / अनुपपद्यमानविषयञ्चोक्तप्रकारेण स्वभावादि स्यादन्यसंयोग्यादिपरपरिकल्पितं लिंगमिति व्यापकानुपलम्भः। वैधhण नीलादिज्ञानं / तदेव वा कार्यादिलिङगं / नैमित्तिकशब्दार्थानुपपत्तिर्बाधिका। किमेवं सिद्धमगमकत्त्वमन्येषां। तथाहि विषयित्वङगमकत्त्वं प्रकाशकत्त्वमित्यादयः पर्यायाः। तस्मात्साध्यस्य त्रिविधत्त्वात्तङगमको हेतुरपि त्रिविध एवेति स्थितमेतत् / कथन्त्रिविधमित्याह / स्वभाव (b2) इत्यादि (1) च शब्दः स्वभावकार्यापेक्षया समुच्चयार्थः। एतच्चाभिमतहेतप्रदर्शनं स्वभावकार्यानपलम्भभेदात्त्रिविधमप्रत्यक्षस्य सिद्धरङरां। नतु कारणकार्थसमवायिविरोध्यादि 4b भदादिति दर्शनार्थ। ननु चोपलब्धिलक्षणप्राप्तानुपलम्भश्चेति वक्तव्यं। तस्यैवा प्रत्यक्षस्य सिद्धर्वक्ष्यमाणेन न्यायेनाङगत्त्वान्नानुपलम्भमात्रस्य तत्कथं सामान्येनोक्तमिति चेत्। एवमेतत्समर्थितसाधनाङगाधिकारात्तु सामान्यशब्दोप्ययमनुपलम्भशब्दउपलब्धिलक्षणप्राप्तानुपलम्भ एव वर्त्तते / तथाहि सामान्यशब्दा अपि शब्दान्तरसन्निधानात्प्रकरणसामर्थ्याच्च विशेषेष्ववतिष्ठन्ते। यदाह। नहि विशेषशब्दसन्निधेरेव शब्दानां विशेषावस्थितिहेतुरपि तु प्रकरणसामर्थ्यादिकमपीति यथा चानुपलम्भमात्रस्य समर्थितसाधनाङगत्त्वं न सम्भवति तथोत्तरत्र प्रतिपादयिष्यति। अप्रत्यक्षसिद्धिहेतुलिङगाधिकाराद्वाऽचोद्यमेवैतत्। किम्पुनरस्य त्रिविधस्य साधनाङगस्य समर्थनं / यद्विपर्ययादसमर्थनम्भविष्यतीत्याह। तस्ये (1b3)त्यादि। साध्यशब्दोत्रानित्यत्त्वादिधर्ममात्रस्य वाचकः।' अवयवेसमुदायोपचारात् न तु साध्यमिधर्मसमुदायस्य व्याप्तेरेवाभावप्रसङगात / शब्दादिधर्मिविशिष्टस्यानित्यत्त्वादेर्दृष्टान्तमिण्यभावात्। व्याप्तिं प्रसाध्यान्वयव्यतिरेकसाधकेन प्रमाणेन अनेनान्वयव्यतिरेकनिश्चयावुक्तौ। धर्मिणि (1b3) जिज्ञासितविशेषे शब्दादौ भावसाधनं (1b2) / पक्षधर्मत्त्वसाधकेन प्रमाणेन सत्त्वकथनमित्यर्थः। अनेनापि पक्षधर्मत्त्वनिश्चय उक्तः। कथम्पुनः सोपसंहारेण व्याप्तिं प्रसाध्य धर्मिणि भावः कथ्यत इत्यत्रोदाहरणमाह। यथेत्या (1b3) दि / तत्सर्व्वमित्यनेन सोपसंहारेण व्याप्तिप्रदर्शनङकथयति / किमर्थ (1) विप्रतिपत्तिनिरासार्थ (1) तथाहि पक्षसपक्षा