________________
वादन्यायः
व्याप्तिं प्रसाध्य धर्मिणि भावसाधनं । यथा (-) यद्य(?त्स)त्कृतकं वा _तत्सर्वमनित्यं यथा घटादिः सन्कृतको वा शब्द इति । अत्रापि न कश्चि"त्क्रमनियम इष्टार्थसिद्धरुभयत्राविशेषात् । धर्मिणि प्राक्सत्त्वं प्रसाध्य 'पश्चादपि व्याप्तिः प्रसाध्यत एव । यथा (-) सन् शब्दः कृतको वा यश्चैवं स सर्वोऽनित्यः यथा घटादिरिति । अत्र व्याप्तिसाधनं विपर्यये बाधकप्रमाणोपदर्शनं । यदि न सर्व सत् कृतकं वा प्रतिक्षणविनाशि
5a पेक्षयान्ताप्तिर्बहिर्व्याप्तिश्च प्रदर्यत इत्येके विप्रतिपन्नाः। तच्च ।
न युक्तं वस्तुबलायातत्त्वाद्वयाप्तेः । पूर्व साध्येन व्याप्ति प्रसाध्य पश्चाद् धम्मिणि सत्त्वं कथयितव्यमित्ययमीदृशः क्रमनियमः किमत्रास्ति न वेत्याह । अत्रापी (1b3)त्यादि। अत्रेति मन्मते साधनाङगसमर्थने वा ऽपिशब्दोऽवधारणे प्रतिषेधेन च सम्बन्धनीयः। नैव कश्चिदयमीदृशः क्रमनियमः (1b3) परिपाटिनियम इति यावत्। किंकारणमित्याह । इष्टार्थसिद्धरुभयत्राविशेषा (1b) दिति । व्याप्तिसाधनाभिधानपूर्वकर्मभावसाधनाभिधाने (धर्मिभावसाधनाभिधाने ) धमिभावसाधनाभिधानपूर्वके वा व्याप्तिसाधनाभिधाने साध्यार्थसिद्धेविशेषाभावादित्यर्थः। एवमाकूतं क्रमनियमो हि किमर्थमाश्रीयते (1) साध्यसिध्यर्थं । यथा साधर्म[? H]वति दृष्टान्तप्रयोगे साध्येनैव हेतोरविनाभावः प्रदर्श्यते । न हेतुना साध्यस्य । तथा वैधर्म्यवति साध्याभाव एव हेतोरभावः कथ्यते । न तु हेत्वभावे साध्यस्य । किमर्थं । माभूद्धेतोः साध्येनाविनाभावित्त्वाप्रदर्शनेनेष्टार्थसिद्धरसिद्धिविपर्ययसिद्धिश्चेति । यदाह । एवं हि हेतोः सपक्ष एव सत्त्वं । साध्याभावे चासत्त्वमेव शक्यं दर्शयितुं । न विपर्ययादिति। यथा-नित्यताऽकृतकत्त्वेन नाशित्त्वाद्वाऽत्र कार्यता। स्यादनुक्ता कृता व्यापित्त्वनिष्ठश्च समन्वय' इति । तदत्र युक्तं क्रमसमाश्रयणं' इह तु विनाप्यनेनाभिमतार्थसिद्धिः सम्पद्यत 'इति सूक्तन्न कश्चित्क्रमनियम इति। इष्टार्थसिद्धरुभ (य) त्राविशेषादित्येतदेवात्र कुत इति चेदाह । यस्माद् धर्मिणी त्यादि। साध्येन व्याप्ति प्रसाध्येत्युक्तं प्राक् । किम्पु
नस्तद्वयाप्तिसाधनमित्याह । अत्रेत्यादि (1b3)। अत्रेति स्वभावहेतौ। कार्या5b नुपलम्भयोस्तु पश्चाद्वयाप्तिसाधनमभिधा स्यात् । विपर्यये साध्यस्य, हेतोवं
र्तमानस्य सत इति शेषः। बाधकं प्रमाणं येन साध्यविपर्यये वर्तमानो हेतुर्बाध्यते तस्य कथनं यत्तद्वयाप्तिसाधनमित्यर्थः।
किं' पुनस्तद्वाधकप्रमाणोपदर्शनमित्याह (--)यदि न सर्व वस्तु सत्कृतकं