________________
१-निग्रहस्थानलक्षणम्
[७ स्यादक्षणिकस्य क्रमयोगपद्याभ्यामर्थक्रियाऽयोगादर्थक्रियासामर्थ्यलक्षणम
चेति (1b5) पूर्वोक्तहेतुद्वयं परामृषति । प्रतिक्षणविनाशि (1b5) स्यात्तदाऽसदेव स्यादिति सम्बन्धः । कुतः' अक्षणिकस्य पदार्थस्य क्रमयोगपद्याभ्यामर्थक्रिया (1b5)ऽयोगात्। तथाह (--)क्षणिकत्त्वेनाभिमतस्य भावस्य क्रमेण तावदर्थक्रिया न युज्यते। कार्यनिर्वर्तनयोग्यस्य स्वभावस्य सदा सत्त्वात् । अन्यथा पश्चादपि न कुर्यात् । पूर्वस्वभावाप्रच्युतः पुरावत् । सहकारिणमासाद्य करोतीति चेत्। न अनाधेयात्माति शयस्य पूर्वस्वभावापरित्यागिनः सहकारिष्वपेक्षायोगात्। आदधत्त्येव सहकारिणस्तस्यात्मातिशयमिति चेत्। न सहकारिभिराहितस्यातिशयस्य तत्त्वान्यत्त्वायोगात् । तथाहि न तावदयमात्मातिशयस्तस्यात्मभूतः । तस्यैव तदव्यतिरेकादात्मातिशयवत्सहकारिबलादुत्पत्तिप्रसङगात् (1) एवञ्चाभ्युपेतमस्याक्षणिकत्त्वमवहीयते । व्यतिरिक्त एव स तस्मादिति चेत् । भवतु किन्तु तस्मादेवात्मातिशयात्कार्योत्पत्तेस्तदवस्थमस्यार्थक्रियास्वसामर्थ [? र्थ्य]मिति दुन्निवारः प्रसङगः समापतति । सम्बन्धोप्यनेन कथमिति वश्चिन्ता विषयमवतरत्येव। अतिशयबलात्करोतीत्यत्रापि सहकार्यपेक्षापक्षोदितो दोषः ॥ समर्थस्वभावत्त्वादनाधेयातिशयत्त्वेपि कुविन्दादिवत् किञ्चिदपेक्ष्य कार्यजनक इति चेत् । न तत् सारं। नहि सहकारिणः प्रत्ययास्तस्य तावदतिशयमाधातुं क्षमाः। न चाप्यनुपकारके भावेऽपेक्षा युक्तिमनुपतत्यतिप्रसा[? स]ङगात्। 6a एवञ्च सर्व्वकालमस्याकार्यजनकत्त्वप्रसङगः । कुविन्दादीनामपि तत्स्वभावस्य करणादका रकस्य वा (1) तत्स्वभावत्त्वादित्यादि हेतुविन्दा वुक्तमिति नेहोच्यते । एवन्तावत्क्रमेणास्यार्थक्रिया न युज्यते नापि युगपत् । तथाहि अर्थक्रियानिवर्तनयोग्यस्वभावाध्यासितमूर्तिः सहवासावतश्च पश्चादपि तद्रूपवियोगात्कार्यमुत्पादयेदन्यथोदयानन्तरमेवास्य क्षयः स्यात्। न चाप्यक्षणिकत्त्वेनोपगतस्य सकृत् कार्यमुत्पद्यमानमुपलभ्यते क्रमसम्भवदर्शनात् । तदेवमयमक्षणिकः पदार्थः क्रमेण युगपद्वा न काञ्चिदप्यदर्थक्रियामात्रामंशतोपि क्ष मो निर्वर्तयितुमित्त्यसत्त्वमेवास्य । यदि नामार्थक्रिया सा न युक्ता तत्किमित्यसत्त्वमेवास्य स्यादित्याह । अर्थक्रियेत्यादि (1b5) । अर्थक्रियायाः सामर्थ्यन्तदेव लक्षणं यस्य सत्त्वस्येति विग्रहः। अतोऽर्थक्रियासामर्थ्यलक्षणात्सत्त्वाद्वयावृत्तम्व्यवच्छिन्नं ।
१ न्यायविन्दावपि तत्स्वभावत्त्वात्तत्स्वभावस्य च हेतुत्त्वात् (तृ० परि०) पृ०६९ Kashi Sanskrit Series.