________________
वादन्यायः
रिटानि , तो निवृत्तमित्यसदेव स्यात् । सर्वसामोपाख्यविरहलक्षणं
हि निरुपाख्यमिति । साधनस्य साध्यविपर्यये बाधकप्रमाणानुपदर्शने "विरोधाभावादस्य विपर्ययेवृत्तेरदर्शने स न (?सन्) कृतको वा स्यान्नित्त्य
श्वेत्यनिवृत्तिरेव शङ्कायाः। ततो व्यतिरेकस्य सन्देहादनैकान्तिकः स्याa (न च सर्वानुपलब्धिर्भावस्य बाधिका । तत्र सामर्थ्य क्रमाक्रमयोगेन
व्याप्तं सिद्धं प्रकारान्तराभावात् (।) तेन व्यापकधानुपलब्धिर
इति श्रुतेर्हेतौ । तस्मादर्थे वा (1) कथम्पुनरि दमवसीयते (1) अर्थक्रियासामर्थं [? थ्यं] सत्त्वलक्षणमित्यत आह। सर्वे (1b5)त्यादि । सर्वेषां सामर्थ्यानामुपाख्या श्रुतिः। उपाख्यायते अनयेति कृत्वा तस्याविरहोऽभावः। स एव लक्षणं यस्य निरुपाख्यस्य स तथा ख्यायते। अत्रापीति श्रुतिहेतौ। सर्वग्रहणं घटादीनामपि क्षणिकत्त्वेनाभिमतानाम्विषयभेदेनार्थक्रियासामर्थ्य निर्वृत्तेरस्तीति तेषामसत्त्व
व्यवच्छेदाय। नैवार्थक्रियासामर्थ्य सत्त्वलक्षणमपि तु सत्तायोग इति चेत् । न। 6b सत्ताया अभावात् । तदभावश्चान्यत्र प्रतिपादित इति नेहोच्यते। सत्तायाश्च
नैव सत्त्वं प्राप्नोति सत्तायोगाभावात् । निःसामान्या'नि सामान्यानीति समयात्। न च स्वयमतद्रूपाः पदार्थात्मानः स्वभावान्तरसम्पर्कमासादयन्तोपि ताद्रूप्यम्प्रतिपद्यन्ते। स्फटिकाझपटलादय इव जवाकुसमादिरूपमिति यत्किञ्चितत्। तत्वेतावदेवाभिधानीयं। सर्वसामर्थ्य विरहलक्षणं निरुपाख्यमि (1b6)ति तत्किमनेनोपाख्याग्रहणेनेति चेत्। सूक्त मेतत्सर्वसामर्थ्यरहितस्य तु सामर्थ्यनिबन्धनस्य कस्यचिदपि शब्दस्यावृत्तेरसद्वयवहारविषयत्त्वख्यापनाय। संज्ञायाश्चानुगतार्थत्त्वसिद्धयर्थमिदमुक्तमिति गम्यते। यदि त्वेवं साध्यविपर्यये हेतोबधिकप्रमाणोपदर्शनं न क्रियते ततः किं स्यादितिचेदाह। एवं साधनस्य साध्यविपर्यये बाधकप्रमाणानुपदर्शने (1b6) सत्यनिवृत्तिरेवाशंकाया इति सम्बन्धः। का पुनः सा शंका। स कृतको वा स्यान्नित्यश्चैवं प्रकारा।
ननु विप क्षेहेतोवृत्ति!पलभ्यते तत्कथमनिवृत्तिरित्याह। अदर्शने (1b6)पि वृत्तेरस्य-साधनस्याक्षविपर्यये साध्यस्य ह्युपस्कारः। किमित्येवमप्यनिवृत्तिरित्याह। विरोधाभावादि(Ib6)ति। साधनसाध्यविपक्षयोरिति शेषः । अयमस्याभिप्रायो यदि, -a साधनस्य साध्यविपर्यस्य च परस्परम्विरोधः सिद्धः स्यात्। भवेददर्शनमात्रे तेअन्यथा
बाधकासिद्धौ संशयो दुनिवारः स्यादित्याशङक्याह । न च नैव सर्वानुपलब्धिर्बाधिका प्रतिषेधिका युक्तेत्युपस्कारः। कस्य भावस्य सत्त्वस्य साध्यविपर्यये हेतोरिति शेषः। प्रकरणाद्वैतद् गम्यत एव । इदमुक्तम्भवति। व्यापकानुपलब्धिरेव सहभाव