________________
१-निग्रहस्थानलक्षणम्
[९ द्वेत्वाभासः । नाप्यदर्शनमात्राद्वयावृत्तिर्विप्रकृष्टेष्वसर्वदर्शिनोऽदर्शनस्याभावाऽसाधनादग्दर्शनेन सतामपि केषाञ्चिदर्थानामदर्शनात् । बाधकं पुन': प्रमाणं + यत्र क्रमयोगपद्यायोगो न तस्य क्वचित्सामर्थ्यमस्ति चाक्षणिके स इति प्रवर्त्तमानमसामर्थ्यमसल्लक्षणमाकर्षति । तेन य(त्स)त्कृतकं वा तदनित्यमेवेति सिध्यति । तावता साधनधर्ममात्रान्वयः साध्यधर्मस्य स्वभावहेतुलक्षणं सिद्धं भवति ।
अत्राप्यदर्शनमप्रमाणं यतः क्रम(योगपद्य)योगस्यैवासामर्थ्येन व्याप्त्यसिद्धेः पूर्वकस्यापि हेतोरव्याप्तिरिहापि पुनः साधनोपगमेऽनवस्थाप्रसङ्ग इतिचेत्। न। भावसाधनस्यादर्शनस्याप्रतिषेधात् । यददर्शनं विपर्ययं साधयति हेतोः साध्यविपर्यये तदस्य विरुद्धप्रत्युपस्थानाद्वाधकं प्रमाणमुच्यते । एवं स हेतुः साध्याभावेऽसन्सिध्ये1 0 य(?द्य)दि तत्र प्रमाणवता स्वविरुद्धेन बाध्येत । अन्यथा तत्रास्य बाधकासिद्धौ संशयो दुर्निवारः।
बाधते हेतोः साध्याभावेन । यथा प्रतिपादितम्प्राक् । नाप्यदर्शनमात्राद्वयावृत्तिविप्रकृष्टसर्वदर्शिनोऽदर्शनस्याभावासाधनादि (1b7) त्यादिना। तस्मात्सूक्तमन्यथा बाधकासिद्धौ संशयो दुनिवारः स्यादिति । अनेन पूर्वोक्त मेव स्मारयति । एवञ्च तदर्थवत्। अभावसाधनस्यादर्शनस्याप्रतिषेधादित्युक्तं। तत्र भवेत्कस्यचिदाशंका किमनेनाभावसाधनस्येति विशेषणेन यावता सर्वमेवादर्शनमभावसानिमित्यतस्तदाशङकाविनिवृत्त्यर्थमिदमाह। न चेत्यादि (1bII)। अत्र च शब्दो हि शब्दार्थे प्रतिपत्तव्यः। तस्मिं नैव वाऽवधारणे व्याख्यानन्तु पूर्ववत् ।
ननु च बाधकस्यैव प्रमाणस्य क्रमाक्रमायोगस्यासामर्थ्येन व्याप्तिर्न सिद्धा तत्कथं तत्स्वयं असिद्धव्याप्तिकं सदपरस्य सत्त्वादेखैतोर्व्याप्तिसाधने पर्याप्तं । प्रमाणान्तरेण तत्र व्याप्तिः साध्यत इति चेत्। सैव तीयमनवस्थादोषादिवानुबध्नातीति कदाचित्परो ब्रूयादित्या'शङक्य सर्वमिदमाह। तत्रेत्यादि (IbII)। तत्र शब्दो वाक्योपन्यासार्थः। सामर्थ्य यद्वस्तुलक्षणं तत्क्रमाक्रमयोगेन व्याप्तं सिद्धं । यत्र सामर्थ्य तत्र क्रमाक्रमाभ्यामर्थक्रियया भवितव्यमित्यनेनाकारेण तदेव कुत इति चेदाह । प्रकारान्तरासग्भवात् (IbII) । यस्मादन्यत् क्रमाक्रमव्यतिरिक्तं प्रकारान्तरं नास्ति । तस्माद्यत्रेदं सत्त्वलक्षणमर्थक्रिया सामर्थ्य तत्रावश्यं च क्रमाक्रमाभ्यामर्थक्रियया भवितव्यं (1) ननु च क्रमाक्रमाभ्यामन्यो रासि