________________
१० ]
वादन्यायः
क्षणिके सामर्थ्य बाधत इति । क्रमयौगपद्यायोगस्य सामर्थ्याभावेन
[? शि]र्नास्तीत्येतदेव कथं सिद्धं । क्रमाक्रमयोरन्योन्यपरिहारस्थितलक्षणत्त्वेन तृती' यप्रकारव्यतिरेकत्वात् । भावाभाववदिति ब्रूमः । भवत्वेवं स तु क्रमयौगपद्य - रूप एवेति कुत इति चेत् । कस्तर्ह्यन्यो भवतु । कश्चिद् भवेदिति चेत् । किमर्थतहि महत्यनर्थसङकटे पतितोसि यदिदन्तया तद्रूपाभिधानेप्यसमर्थोसि । यदि नाम सामर्थ्यं क्रमाक्रमयोगेन व्याप्तं सिद्धं तथापिकिं सिद्धमिति चेदाह । तेन सामर्थ्यस्य क्रमाक्रमयोगेन व्याप्तत्वेन व्यापकस्य धर्मस्य क्रमाक्रमयोगस्यानुपलब्धिः ( 2 a 1 ) । अक्षणिके पदार्थेऽभ्युपगते सामर्थ्यं बाधते निराकरोतीत्यर्थः ॥ * तथा ह्ययं क्रमाक्रमयोगस्तस्य सामर्थ्यस्य व्यापकः । ततश्चास्य निवृत्तावश्यमेव सामर्थ्यस्यापि निवृत्तिरन्यथाऽयमस्य व्यापक एव न प्राप्नोति । यस्माद्वाधते इति तस्मात्क्रमयौगपद्यायोगस्य व्यापकाभावस्य कर्मभूतस्य सामर्थ्याभावेन व्याप्याभावेन कर्त्तृ भूतेन व्याप्तिसिद्धेः कारणान्नानवस्थाप्रसङ्गः ।
एवं स्वभावहेतोः साधनाङगसमर्थनमभिधायाधुना निगमयति । एवमि ( 221 ) त्यादिना । एवञ्च यदि न समर्थनं क्रियते तदेव तद्वादिनः पराजयमावहती 'ति प्राक्प्रतिज्ञातमेवायोजयति । तस्यासमर्थन ( 2 2 2 ) मित्यादिना । कस्मादेवं प्रारब्धार्थासाधनादिति । न ह्यसमर्थितं साधनमारब्धमर्थं साधयितुं समर्थं । विवादाभावप्रसङ्गात् । तथाहि सार्व्वज्ञज्ञानसाधने संस्कारोत्कर्षभेदेन सम्भवे प्रकर्षपर्यन्तवृ8 a त्तयः प्रज्ञादयो गुणाः स्थिराश्रयवति सकृद्यथाकथंचिदाहितविशेषं विना हेतु - रात्मनीति) (यदि तहि बाधकप्रमाणोपदर्शनेन हेतोर्व्याप्तिः प्रसाध्यते । तथा सत्यनवस्था भवतः प्राप्नोतीत्याशंकापनोदनाय पूर्व्वपक्षमारच (य) न्नाह । अत्रापी' (1b9) त्यादि । अत्रेति बाधके प्रमाणे । अदर्शनमप्रमाणयतस्तव नादर्शनमात्राद्धेतोर्व्यतिरेकनिश्चय इत्यनेनाकारेण न केवलं मौले हेतावित्यपि शब्दः किं पूर्व स्थापि मौलस्य हेतोरव्याप्तिः प्राप्नोतीति क्रियापदं । किङकारणं । क्रमयौगपद्यायोगस्यै वासामर्थ्येन व्याप्त्यसिद्धेः । तथाहि यद्यदर्शनमात्रेण न व्यतिरेकनिश्चय स्तथा सति क्रमयौगपद्यायोगश्च भविष्यति सल्लक्षणं सामर्थ्यञ्च भविष्यति । कोऽनयोविरोध इत्यत्रैव बाधके प्रमाणे व्याप्तिर्न सिद्धा । यदि नामात्र + न सिद्धा मौलहेतावेतन व्याप्तिः सेत्स्यतीति चेदाह । पूर्व्वस्यापि मौलस्यापि हेतोरव्याप्तिः प्राप्नोतीत्यध्याहारः । तथाहि न स्वयमप्रमाणकं बाधकं प्रमाणमन्यस्य प्रमाणमुपकल्पयि