SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ [११ १-निग्रहस्थानलक्षणम् व्याप्तिसिद्ध नवस्थाप्रसङ्गः । एवं स्वभावहेतुप्रयोगेषु समर्थितं साधनाङ्गं तुमलं प्रामाण्यप्रसङगात्। यद्येवमत्रापि तहि व्यापके प्रमाणेऽन्येन व्यापकेन प्रमाणेन व्याप्तिनिश्चीयत इत्याह। इहापि (1b9)न केवलं मौलहेतावित्यपिनाह। पुनः साधनोपक्रमे सत्यनवस्था भवेत् । तथाहि यत्तद्वाधके प्रमाणे व्याप्तिप्रसाधनाथ बाधकं प्रमाणमुच्यते। तत्रापि व्याप्तिरन्येन बाधकेन प्रमाणेन साध्या। यस्मान्न तदपि स्वयमप्रमाणमितरस्य प्रामाण्यं कर्तुं समर्थमित्येतत्तत्रापि शक्यम्वक्तुं। तस्याप्यन्येन' व्याप्तिः साध्यत इति चेत्। यद्येवं तत्रापीयमेव वार्तेत्यनवस्था भवतस्तथा सति प्रसजति। एवं समारचितपूर्वपक्षः साम्प्रतमत्र प्रतिविधानमाह। नाभावसा धनस्ये (Ibro)त्यादि । व्यतिरेकसाधनत्त्वेनेत्युपस्कार (1) इदमुक्तम्भवति। 8b न सर्वमत्रादर्शनं प्रतिक्षिप्यते। व्यतिरेकनिश्चायकस्य व्यापकानुपलब्धिसंज्ञकस्यानिषेधात्। किन्त्वदर्शनमात्रमिति । यदाह। यददर्शनम्विपर्ययमभावं साधयती (Ibro)ति । कस्य हेतोः कुत्र साध्यविपर्यये तददर्शनमस्य हेतोर्बाधकम्प्रमाणमुच्यते । कस्माद्विरुद्धप्रत्युपस्थापनात् अस्येति वर्त्तते। तथाहि यस्य क्रमयोगपद्याभ्यामर्थक्रियायोगस्तस्य सामर्थ्यलक्षणं सत्त्वं नास्ति । यथा बन्ध्यातनयादीनान्तथा वा क्षणिकानामपि क्रमयौ गपद्याभ्यामर्थक्रियाऽयोग इति। क्रमाक्रमाभ्यामर्थक्रियाऽयोगादित्ययं व्यापकानुपलम्भः सत्त्वादित्यस्य हेतोविरुद्धमसत्त्वं साध्यविपर्यये प्रत्युपस्थापयद्वाधकं प्रमाणमुच्यते । एवञ्च कृतकत्वादावपि यथायोग्यम्वाच्यं । ___ कस्माद्विरुद्धप्रत्युपस्थापनादस्य तद्वाधकम्प्रमाणमुच्यत इत्याह । एवं हि स हेतुः सत्त्वादिलक्षणः साध्याभावे तस्मिन्नसन्निति सिध्येत् यदि तत्र साध्याभावे बाध्यते निराक्रियता केन स्वविरुद्धेन स्वरूपविरुद्धनासत्त्वादि नेति यावत् । किम्भूतेन प्रमाणवता प्रमाणयुक्तेन । कस्मादेवमसौ तत्रासत्सिध्यतीत्याह। अन्यथा तत्र (1bII) साध्यविपर्ययेऽस्य हेतोबर्बाधकस्यासिद्धौ सत्त्यां संशयः । संश्च स्यान्नित्यश्चेत्यादि दुनिवारः स्यादिति शेषः। दुःखेन निवार्यत इति दुर्निवारो दुनिषेध इत्यर्थः । बाधकग्रहणेनात्र विरुद्धस्य प्रत्युपस्थापकम्प्रमाणं गृहयते । वाधकप्रमाणप्रत्युपस्थापितम्वा हेतुविरुद्धं । ननु चानुपलब्धिमात्रादेव साध्यविपर्यये हेतोावृत्तिनिश्चयादसन्दिग्धो व्यतिरेको भविष्यति । तत्किमुच्य से शङकाया 9a . व्यावृत्तिः। बाधकप्रमाणानुपदर्शने तु स एव न सिध्यति तत्कथमियं निवर्तेतेति। यदि नामेयमाशडका न व्यावर्त्तते। ततः किमित्याह । ततः आशंकाया
SR No.002368
Book TitleVadnyaya
Original Sutra AuthorN/A
AuthorShantrakshit Acharya
PublisherMahabodhi Sabha
Publication Year
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy