________________
१२]
वादन्यायः
भवति । तस्या समर्थनं साधनाङ्गावचनं तद्वादिनः पराजयस्थानमा.
अनिवृत्तेरनेकान्तिकः स्याद्धेत्त्वाभासः (1b7) । कस्मादृयतिरेकस्य स्या [? सा] ध्याभावे हेतोरभावलक्षणस्य सन्देहात्कारणात्सन्दिग्धविपक्षव्यावृत्तिकः स्याद्धत्वाभास इत्यर्थः।
किम्पुन रदर्शनेप्यनिवृत्तिराशंकाया यावता तददर्शनमभावं साधयतीत्याह। नाप्यदर्शनमात्राद्वयावृत्तिः (1b7) साध्याभावे हेतोः सिध्यतीति वाक्याध्याहारः । अपिशब्दो यस्मादर्थे । मात्रग्रहणमुपलब्धिलक्षणप्राप्तादर्शनस्य व्यवच्छेदार्थं। . कुत एतत् । विप्रकृष्टेषु देशकालस्वभावविप्रकर्षेः पदार्थेषु चीनदाशरथिपिशाच प्रभृतिषु यददर्शनं तस्याभावासाधनात् । कस्याभावं साधयतीति चेत् । प्रकृतत्त्वाद्विप्रकृष्टानामिति गम्यते। ___ ननु समासादितसकलपदार्थव्यापि जानाति स यस्यादर्शनमभावम्विप्रकृष्टानामपि साधयति तत्कथमिदमुक्तमित्याह । असर्वदर्शिन (1b7) इति । सर्वन्द्रष्टुं शी लमस्य ततो नजा समासः। कस्मात्तस्याप्यदर्शनमभावन्न साधयतीति । अर्वाग्दर्शनेन पुंसा सतामपि केषाञ्चिदर्थानाम्विप्रकृष्टानामदर्शनात् । इदमागूरितं ।' नेह सर्वदर्शिदर्शनं समस्तवस्तुसत्तां प्राप्नोति। येन तन्निवर्तमानमर्थसत्ताम्वृक्षवच्छिंसपां निवर्तयेद् भेदात् । नापि तत्तस्याः कारणं येन वह्निवद्भूमं निवर्तमानं निव
तयेत्। तदभावेपि भावादिति । बाधकं पुनः प्रमाणमित्यादि। अत्र केचिदेवं 9b पूर्वपक्षयन्ति । किम्पुनर्बाधकं प्रमाणं यस्योपदर्शनेन मौलस्य हेतोर्व्याप्तिप्रती
तिर्भवतीत्याह । बाधकम्पुन (1b7)रित्यादि । तेषाडकथम व्याप्तिसाधनम्विपर्यये बाधकप्रमाणोपदर्शनं यदि न सवं सत्कृतकं वा प्रतिक्षणम्विनाशि स्यादित्यादिनाऽत्रैव प्रागर्थस्याभिहितत्त्वात्पुनरुक्तदोषप्रसक्तिन भवतीति चिन्त्यमेतत् तैरेवेत्यलं परदोषसंकीर्तनेन। तस्मादन्यथा पूर्वपक्ष्यते। यस्यापि तहि बाधकम्प्रमाणमस्ति तस्य कथमयमदोष इत्यत आह । बाधकं पुनः प्रमाणं (1b7)प्रवर्त्तमानमसामर्थ्यमाकर्षतीति क्रियापदं। कीदृशमसल्लक्षणं । कथं प्रमाणं यस्य पदार्थस्य क्रमयोग पद्यायोगः। अर्थक्रियाया इत्यध्याहार्य । न तस्य क्वचित्कायें सामर्थ्य यथा नभस्तलारविन्दस्येत्यध्याहार्यो दृष्टान्तः। अस्ति चाक्षणिके भावे स 'मयोगपद्याभ्यामर्थक्रियाया अयोग इत्येवम्प्रवर्त्तमानं । ततः किजातमिति चेदाह। तेन (1b8) कारणेन येन तत्प्रवर्त्तमानमसल्लक्षणमसामर्थ्यमाकर्षयति। यत्सत्कृतकम्वा तदनित्यमेवेति सिध्यति।
एवमपि कि सिद्धम्भवतीत्याह । तावता च वाधकप्रमाणोपदर्शनमात्रेण साधन