________________
१-निग्रहस्थानलक्षणम् रब्धार्थाप्रसाधनात् । वस्तुनः समर्थस्य हेतोरुपादानेपि सामर्थ्याप्रतिपादनात् ।। त् ॥
कार्यहेतावपि साधनाङ्गस्य समर्थनं । यत्कायेलिङ्ग कारणस्य साधनायोपादीयते तस्य तेन सह कार्यकारणभावप्रसाधनं भावाभाव
धर्ममात्रान्वयः (1b8) सिध्यतीति वर्तते । केनेत्याह। साध्यधर्मस्य कर्तरि चेयं षष्ठी प्रतिपत्तव्या।तेन साध्यधर्मेण साधनधर्ममात्रस्यानपेक्षितहेत्वन्तरव्यापारस्यान्वयः सिध्यतीति वाक्यार्थः सन्तिष्ठते (1) नत्वेवडकरणीयं साधनधर्ममात्रेणान्वयः साध्यधर्मेति । एवं हि साध्यमेव हेतुना ऽविनाभूतं जातं न हेतुरिति हेतो रगमकत्त्वम्भवेत् । ततश्च को गुणो लभ्यत इत्याह । स्वभावहेतुलक्षणञ्च सिद्धम्भवति (1b9)तावता चेति वर्त्तते । स्वभावहेतुलक्षणञ्च तद्भावमात्राद्धमिनिस्वभावो पि प्रत्ययाभावेऽपुनर्यत्नापेक्षितत्त्वात् कलधौतमलविशुद्धिवदित्येवमादयो हेतवः Ioa प्रतिलब्धसामातिशयाः सन्त्येव ते च यद्यसमर्थिता एव ज्ञाप्यसमर्थ ज्ञाप'येयुस्तदा जैमिनिप्रभृतीनां विवादाभाव एव भवेत् । नन्वेतदेव न सम्भाव्यते । यत्परमार्थतः समर्थस्यापि हेतोरभिधाने निग्रहा. सावित्याशङकायां स्वाभिप्रायं प्रकटयति । वस्तुतः समर्थस्य हेतोरुपादानेपि सामर्थ्यप्रतिपादनादिति। अयमस्य भावो यदि नामानेन परमार्थतः समर्थो हेतुरुपात्तस्तथापि तस्य सामर्थ्य साधनाङगासमर्थनान्न प्रतिपादितमनेनेति असमर्थकल्प एवासौ। न यर्थस्य परार्थानुमाने गुणदोषावधिक्रियते। किन्तर्हि वचनस्य वक्तुरय थार्थाभिधानेनोपालम्भात् । अत एव यत्राप्यर्थस्य गुणदोषावधिक्रियते तत्रापि वचनद्वारेणैव । एवमेतदभ्युपगन्तव्यमन्यथा क्षणिकः शब्द इत्येतावन्मात्रमेव प्रतिज्ञावचनमभिधाय स्थातव्यं । तथाभिधानादेवाभिमतार्थसिद्धेरिति ॥०॥ ___ एवं स्वभावहेतावुपदर्य साधनाङगसमर्थनमिदा नीङकार्यहेतावाह (1) कार्यहेतावपी (2a2)त्यादिना। किम्पुनस्तदित्याह (1) यत्कार्यं लिङगं धूमादिसंज्ञकं कारणस्य दहनादेः साधनायोपादीयते (2a3) । तस्य धूमादेस्तेन दहनादिना' सह कार्यकारणभावप्रसाधनंलिङगिलिङगयोर्हेतुफलभावसाधनमेव यत्तदेव कार्यहेतौ साधनाङगसमर्थनमित्यर्थः । केन पुनस्तयोः कार्यकारणभावः प्रसा' ध्यत इत्याह। भावाभावसाधनप्रमाणाभ्या (2a3) मिति। भावाभावी कार्यकारणयोः सदसत्ते तयोः साधने ते च ते प्रमाणे चेति व्युत्पत्तिक्रमः (1) साधन- Iob . शब्दश्च करणसाधनः भावाभावसाधनप्रमाणे च प्रत्यक्षानुपलम्भो यथाक्रम (1) कथम्पुनः प्रत्यक्षानुपलम्भाभ्यां कार्यकारणभावः प्रसाध्यत इत्याह' (1) यथे