________________
१४]
वादन्यायः
भाव प्रसाधनप्रमाणाभ्यां यथेदमस्मिन् सति । सत्स्वपि तदन्येषु समर्थेषु तद्धेतुषु तदभावे न भवतीति । एवं ह्यस्यासन्दिग्धं तत्कार्यत्त्वं समथितं
(2a3)त्यादि । इदन्धूमादिसंज्ञकं कार्यमस्मिन्दहने सति भवति । उपलब्धिलक्षणप्राप्तं सदनुपलब्धं प्रागिति वाक्यशेषः कार्यः। अन्यथा दहनस्य तत्र धूमे व्यापार एव न कथितः स्यात् दहनसन्निधानात्प्रागप्येतदासीदित्याशङकासम्भवात् । यथोक्तानुपलम्भग्रहणे तु नैवेयमवतरति । अत एव च प्रमाणविनिश्चि[? श्च]यादावप्येवमेवा भिहितमिति । अनेन च प्रत्यक्षप्रमाणव्यापार उक्तः । तथाहि अस्मिन्सतीदं भवतीति प्रत्यक्षेणैतद् गम्यते । सम्प्रत्यनुपलम्भस्य व्यापार निर्दिविक्षु राह। सत्स्वपी (2a3)त्यादि। तस्माद्दहनादन्येषु विद्यमानेष्वपि । तथा तस्य धूमस्य हेतुष्विन्धनानिलादिषु समर्थेषु सत्स्वपीति वर्त्तते। चकारश्चात्र लुप्त' निर्दिष्टः प्रतिपत्तव्यः समर्थेषु चेति । तस्य दहनस्याभावे न भवति । इदमित्यधिकृतं। इति एवमित्यस्यार्थे 'वर्त्तते व्यवच्छेदे वा। तदनेन गवारवादी नां तद्देशकालस (न्) निहितानामपि धूमजननं प्रति कारणत्त्वन्निसि[? षि]द्धं । यतो यदि ते गवाश्वादयस्तस्य कारणम्भवेयुस्तदा व्यतीतेप्यग्नौ तेषां सन्निहितत्त्वाद् धूमो'त्पत्तिप्रसङगः। इन्धनादिकारणान्तरापेक्षास्ते तस्य जनका भवन्ति ततोयमप्रसङग इति चेत् । यद्येवं तेपि तत्र सन्निहिता एवेति न व्यावर्त्तते प्रसङग इति दहनमपि सहकारिणमपेक्ष्य तं जनयन्ति ततो न युक्तमिदमिति चेत् । नन्वेवं सत्यायातन्दहनस्य धूमोत्पत्ति प्रति कारणत्त्वं। तत्किमिदमुच्यते पूर्वापरव्याहतङग वाश्वादय एव तस्य कारणन्न दहन इति । अस्तु तर्हि तस्यापि दहनस्य कारणत्त्वङगवारवादीनामपीति चेत् । न युक्तमेतत् । तत्र व्यतिरेकगतेदुर्घटत्वात् । तथा हयपगतेष्वपि गवादिषु सति च दहने तत्रेन्धनादिकलापे भवत्येव हुतभुग्घेतोरुत्पत्तिः । यतः कारणप्रबन्धङकार्यप्रबन्धञ्चाश्रित्य हेतुफलभावश्चिन्त्यते भावानाङका रणप्रबन्धपूर्वः कार्यप्रबन्ध इति । तत्तु क्षणभेदं। नहि समासादितज्ञानातिशयानामयं पूर्वः क्षणोऽयमुत्तर इति विशेषावलम्बि ज्ञानमुदेति (1) अग्दिर्शि भिश्चाधिकृत्य प्रमाणलक्षणं प्रणयितं कृपावद्भिः । यथोक्तं सांव्यवहारिकस्यैतत् प्रमाणस्य रूपमुक्तमत्रापि परे विमूढा विसम्वादयन्ति लोक-. मिति । वासगृहादिषु तहि दहनाभावेपि धूमसद्भावाद्वयभिचार इति चेत् । भूतस्यापि दहनप्रबन्धपूर्वकत्त्वमस्त्येव । साक्षात्पारम्पर्यकृतस्तु विशेषः । अवयन्ति च विच्छिन्नाविच्छिन्नदर्शनप्रबन्धयोद्धूमप्रबन्धयोर्वासगृहादिरसवतीप्रदेशादिभाविनोः स्फूटमेव भेदम्विचित्र भावस्वभावविवेकाभ्यासबलोपजातविदग्ध