________________
१-निग्रहस्थानलक्षणम्
[१५ भवति । अन्यथा केवलं तदभावे न भवतीत्युपदर्शनेऽन्यस्यापि तत्राभावे सन्दिग्धमस्य सामर्थ्यमन्यत्तत्र समर्थन्तदभावात्त'न भूतं । एतन्निवृत्तौ
बुद्धय इति भेदेनाप्यनुमानमविरुद्धमत एव देशकालाद्यपेक्षमनुमानं कार्यहेतौ विरुद्धकार्योपलम्भे चोक्तं ।'
इष्टम्विरुद्धकार्येपि देशकालाद्यपेक्षणं ।
अन्यथा व्यभिचारि स्याद् गत्येवासीत (?) साधनं (॥२) इति। ' ___ अथापि कश्चिद्विविधभावभेदप्रविचयचातुर्यातिशयशलाकोन्मीलितप्रज्ञाचक्षुष्ट्वादयं ज्वलनजनितो धूमोऽयं धूमजनित इति विवेचयति। तथापि न सुतरां व्यभिचारः। तथाहि नाग्निजन्यो धूमो धूमाद् भवति निर्हेतुकत्त्वप्रसङगात् ।' IIb तथा च यदुक्तं (1)
अतश्चानग्नितो धूमो यदि धूमस्य सम्भवः ।
शक्रमूर्ध्नस्तथा स्त[? त]स्य केन वार्येत सम्भवः (॥३) इत्यादि तदसारमित्यप्युपेक्षते (1) तस्मान्न तेषां गवारवादीनां तत्र'कारणत्त्वमस्तीति निश्चयः समाधीयतां । अतश्च दहन एव तस्य कारणं नाश्वादय इति स्थितमेतत् । तथा च दहनस्य कारणत्त्वं योजितमन्वयव्यतिरेकाभ्यां यथोक्तप्रकाराभ्यामेवमिंधनादिसामग्रयाः सर्वस्याः कारणं योजयितव्यं । यदि वैकवाक्यतयैव व्याख्यायते। सत्स्वपि तस्माद्दहनादन्येषु समर्थेषु तद्धतुष्वि धनादिष्वस्याभावे न भवतीति । गवारवादीनां त्वहेतुत्त्वम्व्यतिरेकाभावतया यथोक्तेन विधिना बोद्धव्यं ।
नन चैतदेव युक्तम्वक्तं तदभावेन भवतीत्यथ किमर्थ सत्स्वपि तदन्येषु समर्थेषु तद्धेतुष्वित्युच्यत इति चेदाह। एवं ही (2a4) त्यादि । यस्मादेवं सत्स्वपीत्यादिनाऽभिधीयमानोऽस्य धूमस्य तत्कार्य त्वमग्निकार्यत्त्वं समर्थितं निश्चितमसन्दिग्धम्भवति। अन्यथा यद्योवं नोपदर्यते। केवलं तदभावेन भवतीत्यपदर्श्यते तदा तदभावेन भवतीत्युप दर्शने क्रियमाणेन्यस्यापि तु गवाश्वादेरिन्धनादेश्च तत्राग्निशून्यभूभागेऽभावे सति सन्दिग्धमस्याग्नेः सामर्थ्यम्भवतीति कुतः कारणभावनिश्चय इति समुदायार्थः । तत एवाह (1) सत्सु हि समर्थेषु तद्धेतुषु (2a3) कार्यानुत्पत्तिः कारणान्तरविकल्पं सूचयतीति सन्दिग्धमस्यान्यथा सामर्थ्यमित्येतदेवान्यत्तत्रेत्या (2a4)दिना सूचयति । तत्र धुमाश्वकार्येऽन्यदेवाश्वादि। यदिन्धनादिसमर्थन्तदभावात्तन्न भूतन्दहनशून्यदेशे। अस्य स्वभावात्तन्न जातमिति कुतोयं निश्चय इत्यर्थः ।