________________
२]
वादन्यायः
असाधनाङ्गवचनमदोषोद्भावनं द्वयोः। निग्रहस्थानमन्यत्तु न युक्तमिति नेष्यते ॥ (१)
वा व्यवस्थाः सद्भिः कुत्सितत्त्वात् । ताश्च फलजात्यसन्निग्रहस्थान2a लक्षणास्तासामुपन्यासाः। प्रयोगस्तैरिति विग्रहः । के पुनरहरीकास्त एवं
विधा इत्याह ॥ शठा धूर्ता मायाविनः परसम्पत्तावीालव इति यावत् । यस्मात्तं तथा निगृह्णन्ति इति तस्मात्तनिषेधार्थ तेषां शठानान्तेषाम्वा सवयवस्थोपन्यासानान्तस्य वा निग्रहस्य त्रयाणां वा निषेधो निरासस्तदर्थन्तग्निमित्तमिदम्प्रकरणमारभ्यते ॥ स ए वार्थोऽस्येति विग्रहीतव्यं । तनिषेधे च कृते सम्यग्विचारः प्रवर्तते तत्पूर्वकश्च सर्वः पुरुषार्थ इत्यभिप्रायः । आसन्नविषयिणा_-त्वन्तर्विपरिवर्ति प्रकरणमिदमापरा मृषति । अन्तस्तन्त्वात्मना परिनिष्पन्नत्वात् । अन्यथाऽपरिनिष्पन्नात्मतयाऽसन्नत्वाभावाविदम् शब्दप्रयोगो न स्यात् । आरभ्यत (Ibr) इति वर्तमानकालनिर्देशः (1) क' थमिति चेत् । वर्तमानसामीप्ये वर्तमानवद्वे (पाणिनिः ३।३।३१)ति वचनात् सम्बन्धोऽप्यभिधानीय एवान्यथा बालोन्मत्तप्रलापवदग्राह्यमिदं प्रेक्षापूर्वकारिणाम्भवेदिति चेत् सत्यमेतत् । प्रयोजनान्तर्गतत्त्वात् पृथगसौ नाभिहितः। तथाहि तन्निषेधार्थमिदमारभ्यते (1b1) ततश्चतत्प्रयोजनमनेन प्रकरणेन साध्यते । तथा च प्रयोजनप्रकरण योः साध्यसाधनलक्षणः सम्बन्ध इति सूचितं । ये त्वन्ये किमानन्तर्यादिलक्षणाः सम्बन्धास्ते न वाच्या एव प्रकरणक्रियायामनङगभूतत्त्वात् । तथाहि तेषु सत्स्वपि प्रयोजनाभावे नारभ्यत एव प्रकरणं । असत्स्वपि च तेषु सति प्रयोजने प्रारभ्यत एव । तस्मात्प्रकरणारम्भस्य प्रयोजनान्वयव्यतिरेकानुविधानात्प्रयोजनमेवाभिधानी यम्प्रेक्षापूर्वकारिणा । तस्मिं
श्चाभिहिते सम्बन्धोप्युक्त एव भवतीति मन्यते । नानवधारितप्रकरण 2b शरीराः प्रवर्तन्ते प्रेक्षावन्तस्तस्मात्प्रयोजनवत्प्रवृत्त्यङगत्वात्प्रकरण शरीरमपि
वक्त्व्यमेवेति चेत् । एवमेतत्प्रयोजनवाक्येन त्वभिहितत्वान्नैव तदपि सम्बन्धवत्पृथगभिधानमर्हति । यतस्तनिषेधार्थमिदमारभ्यत इत्युक्तमतश्च तत् निषे धोऽस्य शरीरमित्युक्तम्भवति । यदा चैतनिषेधार्थमिदमारभ्यते तदा पूर्वको हेतुरसिद्धः। प्रतिप्रमाणद्वयञ्चानेन सूचितं प्रारब्धव्यमिदम्प्रकरणम्प्रेक्षावता सति सामर्थ्ये । ग्राह्यम्वा प्रयोजनवत्वात् । सम्बन्धवत्वाच्च तदन्यशास्त्रवदिति स्वभावहेतुः।
'न्यायवार्तिकतात्पर्यटीकायां [५।२।१ (पृ० ६९७,७२३)], न्यायमञ्जर्या [५।२।१ (पृ० ६३९)] च सोद्धरणं अस्य खंडनम् । .