________________
वादन्यायः
१ - निग्रहस्थानलक्षणम् (१-७३) । २ - न्यायमतखंडनम् (७४- १४२) । १. निग्रहस्थानलक्षणम्
नमः समन्तभद्राय ॥
न्यायवादिनमपि वादेषु शंका [ ? असद्वय]वस्थोपन्यासैः शठा निगृदन्ति तन्निषेधार्थमिदमारभ्यते ॥
नमो विघ्नप्रमथनाय ॥
नानासद्गुणरत्नराशिकिरणध्वस्तान्धकारस्सदा (, ) यो नानाविधसत्त्ववांछितफलप्राप्त्यर्थमत्त्युद्यतः । तन्निः शेषजगद्धितोदयपरन्नत्वार्यमञ्जुश्रियं । वादन्यायविभाग एष विमलः सङक्षिप्त आरभ्यते ॥ (१) यत्प्रयोजनरहितं तत्प्रेक्षापूर्व्वकारिभिन्नारभ्यते । यथा बलित्वग्दर्शनविनिश्चयादिकं । अप्रयोजनञ्चेदं प्रकरण' मित्याशंकावतस्तदाशंकापरिजिहीर्षया प्रयोजनप्रदर्शनाय न्यायवादिन (1b1) मित्यादिवाक्यमुपन्यस्तवान् । कथम्पुनरनेन वाक्येनास्य प्रयोजनमुपदर्श्यत इत्यास्तां तावदेतद् । अर्थस्तु व्याख्यायते || न्यायस्त्रिरूपलिङ्गलक्षणा युक्तिः । नीयते प्राप्यते विवक्षितार्थसिद्धिरनेनेति कृत्त्वा अत एव त्रिविधं लिङ्गमि ( 1b2 ) त्यादिना त्रिरूपमेव लिङगमनन्तरम्वक्ष्यति । तदभिधायि वचनमित्यपरे । तम्बदितुं शीलं यस्य स तथोक्तः । तमपि निगृह्णन्ति पराजयन्त इत्यर्थः । निगृह्णन्तु नामान्याय'वादिनम्पराजयाधिकरणत्त्वादेव । न्यायवादिनन्त्वनिग्रहार्हमपि यनिगृह्णन्त्येतन्न सम्भाव्यते । परोत्कर्षव्यारोपधियस्तु तमपि पराजयन्त इति सम्भावना :यामपि शब्दः समुच्चयार्थोऽतिशयद्योतनार्थो वा केषु (1) निगृह्णन्तीत्याह । वादेषु ( 1b1 ) साधनदूषणसंशब्दितेषु विचारेष्विति यावत् । विवादेष्विति क्वचित्पाठः । " तत्र विरुद्धा वादा विवादास्तेष्विति व्याख्येयं 1 विरुद्वाश्च कथं (1) साघनदूषणसंशब्दितानाम्विचाराणान्तद्विरुद्धार्थसाधनप्रवृत्तत्त्वात् ॥ कथम्पुनर्न्यायवादिनमसत्स्वसि' द्वघादिषु हेतुदोषेषु निगृह्णन्ती त्याह ॥ असद्व्ययवस्थोपन्यास: । ( 1b1 ) असतामसाधूनाम्व्यवस्थाः । असत्यो
Ib
Ib